________________
मूलं-१५१
३४३ सत्यं, वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तं कृष्णादीनां न स्याद्, अनियतत्वात् तेषां, सत्यं, वर्णादिसामान्यभेदानामपि कृष्णनीलादीनां प्रायः प्रभूतकालं सहवर्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । आह-भवत्वेवं,
किन्तु पुद्गलास्तिकायद्रव्यस्यैय संबन्धिनो गुणपर्यायाः किमिति गुणपर्यायनामत्वनोदाहृताः?, न धर्मास्तिकायादीना, न च वक्तव्यं-तेषां न सन्तीति, धर्माधर्माकाशजीवकालद्रव्येष्वपि यथाक्रमं गतिस्थित्यवगाहोपयोगवर्तनादिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च प्रसिद्धत्वात्, सत्यं, किन्त्वन्द्रियप्रत्यक्षगम्यत्वात् सुप्रतिपाद्यतया पुद्गलद्रव्यस्यैव गुणपर्याया उदाहता न शेषाणामित्यलं विस्तरेण, तस्माद् यत्किमपि नाम तेन सर्वेणापि द्रव्यनाम्ना गुणनाम्ना पर्यायनाम्ना वा भवितव्यं, नातः परं किमपि नामास्ति, ततः सर्वस्यैवानेन संग्रहात् विनामैतदुच्यत इति। मू.(१५२) तं पुन नामं तिविहं इत्थी पुरिसं नपुंसगं चेव।
एएसिं तिण्हपि अ अंतमि अ परूवणं वोच्छं। वृ. तत्पुनर्नाम द्रव्यादीनां सम्बन्धि सामान्येन सर्वमपि स्त्रीपुनपुंसकलिङ्गेषु वर्तमानत्वात्, त्रिविधं-त्रिप्रकारं, तत्र स्त्रीलिङ्गे नदी महीत्यादि, पुंल्लिने घटः पटः इत्यादि, नपुंसके दधि मध्वित्यादि, एषां च स्त्रीलिङ्गवृत्त्यादीना त्रयाणामपि नाम्नां प्राकृतशैल्या उच्चार्यमाणानामन्ते यान्याकारादीन्यक्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिदिक्षुरुत्तरार्द्धमाह-'एएसि' मित्यादि, गतार्थमेवेति गाथार्थः। मू. (१५३) तत्थ पुरिसस्स अंता आइऊओ हवंति चत्तारि।
ते चेव इथिआओ हवंति ओकारपरिहीणा। वृ. 'तत्र' तस्मिन् त्रिविधे नाम्नि 'पुरुषस्य' पुंल्लिङ्गवृत्ते म्नाः 'अन्ता' अन्तवर्तीन्यक्षराणि चत्वारि भवन्ति, तद्यथा-आकार ईकार ऊकार ओकारश्चेत्यर्थः, एतानि विहाय नापरं प्राकृतपुंल्लिङ्गवृत्तेर्नाम्नोऽन्तेऽक्षरं सम्भवतीत्यर्थः, स्त्रीलिङ्गवृत्तेाम्नोऽप्यन्ते ओकारवर्जान्येतान्येवाकारेकारोकारलक्षणानि त्रीणि अक्षराणि भवन्ति नापरमिति, अत्र चानन्तरगाथायांइत्थीपुरिसमिति निर्दिश्यापि यदिहादौ पुंल्लिङ्गनाम्नो लक्षणकथनं तत्पुरुषप्राधान्यख्यापनार्थमिति गाथार्थः ।। मू. (१५४) अंतिअ इंतिअ उंतिअ अंताउ नपुंसगस्स बोद्धव्या।
एतेर्सि तिण्हपि अवोच्छामि निदसणे एत्तो। वृ. नपुंसकवृत्तिनाम्नां त्वन्ते अंकारः इंकार उंकारश्चेत्येतान्येव त्रीण्यक्षराणि भवन्ति नापरं! एतेषां च त्रयाणामपि निदर्शनम्-उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः । तदेवाहमू. (१५५) आगारंतो राया ईगारंतो गिरि असिहरी ।
ऊगारंतो विण्हू दुमो अ अंता उ पुरिसाणं । मू.(१५६) आगारंता माला ईगारंता सिरी अलच्छो ।
ऊगारंता जंबू वह अ अंताउ इत्थीणं ।। मू.(१५७) अंकारंतं धनं इंकारतं नपुंसगं अतिथ।
उंकारंतो पोलुं महुंच अंता नपुंसाणं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org