________________
३४२
अनुयोगद्वार-चूलिकासूत्रं क्लेदनः पाचनो रुच्यो, मूढवातानुलोकः ।।" पित्तादिप्रशमनः खण्डशर्कराद्याश्रितो मधुरः, तथा चोक्तम् --
. "पित्तं वातं विषं हन्ति, धातुवृद्धिकरो गुरुः ।
- जीवन: केशकृद्धालवृद्धक्षीणौजसां हितः ।।" इत्यादि, स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपि रस: पठ्यते, स चेह नोदाहतो, मधुरादि संसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेपअ एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । स्पृश्यत इति स्पर्श:-कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः, सन्नतिकारणं तिनिशलतादिगतो मृदुः, अधःपनहेतुरयोगोलकादिगतो गुरुः, प्रायस्तिर्यगूर्वाधोगमनहेतुरकंतूलादिनिश्रितो लघुः, देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः, आहारपाकादिकारणं वहन्याद्यनुगत उष्णः, पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थितः स्निग्धः, तेषा मेवाबन्धनिबन्धनं भस्माद्याधारो रूक्षः, एतत्संसर्गजास्तु नोक्ताः एष्वेवान्तर्भावादिति। संस्थानस्वरूपं तु प्रतीतमेव। __ मू.(१५१) से किंतं पज्जवनामे?, २अनेगविहे पन्नत्ते, तंजहा-एगगुणकालए दुगुणकालए तिगुणकालए जाव दसगुणकालए संखिज्जगुणकालए असंखिज्जगुणकालए अनंतगुणकालए, एवं नीललोहिअहालिहसुकिल्लावि भाणिअव्वा। एगगुणसुरभिगंधे दुगुणसुरभिगंधे तिगुणसुरभिगंधे जाव अनंतगुणसुरभिगंधे एवं दुरभिगंधोऽवि भाणिअव्यो। एगगुणतिते जाव अनंतगुणतित्ते, एवं कडुअकसागअंबिलमहुरावि भाणिअव्वा । एगगुणक्खडे जाव अनंतगुणक्खडे, एवं नउअगरुअलहुअसीतउसिणणिद्धलुक्खावि भा०, से तं पज्जवनामे।
वृ. परिः-समतादवन्ति अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवाः, अथवा परि:-समन्ताद् अवनानि-गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवाः-एकगुणकालत्वादयस्तेषां नाम पर्यवनाम, यत्र तु पर्यायनामेति पाठः, तत्र परिः-समन्तादयन्ते-अपगच्छन्ति नपुनर्रव्यवत् सर्वदैव तिष्ठन्तीति पर्यायाः, अथवा परि:-सामस्त्येन एति-अभिगच्छति व्याप्नोति वस्तुतामिति पर्यायाः-एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति, तत्रेह गुणशब्दोऽशपर्याय: ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया पिण्डितस्य य एकः-सर्वजघन्यो गुणः-अंशस्तेन कालक: परमाण्वादिरेकगुणकालक:-सर्वजघन्यकृष्ण इति।
द्वाभ्यां गुणाभ्यां -तदंशाभ्यां कालकः परमाण्वादिरेक द्विगुणकालकः, एवं तावत्रेयं यावदनन्तैर्गुणैः-तदंशैः कालकोऽनन्तगुणकालकः स एवेति एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति, आह-गुणपर्याययोः कः प्रतिविशेषः?, उच्यते सदैव सहवर्तित्वाद्वर्णगन्धरसादयः सामान्येन गुणा उच्यते, न हि मूर्ते वस्तुनि वर्णादिकमात्र कदाचिदपि व्यवच्छिद्यते, एकगुणकालत्वादयस्तु द्विगुणकालत्वाद्यवस्थायां निवर्तन्त एवेति अतः क्रमवृत्तित्वात् पर्यायाः, उक्तं च-"सहवर्तिनो गुणाः, यथा जीवस्य चैतन्यामूर्तत्वादयः, क्रमवर्तिनः पर्यायाः, यथा तस्यैव नारकत्वतिर्यक्त्वादयः" इति, ननु यद्येवं तहि वर्णादिसामान्यस्य भवतु गुणत्वं, तद्विशेषाणां तु कृष्णादीनां न स्याद्, अनियतत्वात् तेषां,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org