SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ९४ नन्दी-चूलिकासूत्रं अप्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्याविरतसम्यग्द्रष्टेर्वर्तमानचारित्रस्य-देशविरतादेः 'संक्लिश्यमानस्य' उत्तरोत्तरं संक्लेशमासादयतः, इदं च विशेषणमविरतसम्यग्दृष्टेरवसेयं, तथा संक्लिश्यमानचारित्रस्य देशविरतादेः सर्वतः समन्तादवधिः 'परिहीयते' पूर्वावस्थातो हानिमुपगच्छति, तदेतद्धीयमानकमवधिज्ञानम्। मू. (७५)से किंतं पडिवाइओहिनाणं?, पडिवाइओहिनाणं जहनेणं अंगुलस्सअसंखिज्जयभागं वा संखिज्ज भागं वा वालग्गं वा वालगपुहत्तं वा लिक्खं वा लिक्खपुहत्तं वा जूअं वा जूयपुहुत्तं वा जवं वा जवपुहुत्तं वा अंगुलं वा अंगुलपुहुत्तं वा पायं वा पायपुहुतं वा विहत्थिं वा विहत्यिपुहुत्तं वा रयणि वा रयणिपुहत्तं वा कुच्छि वा कुच्छिपुहत्तं वा धणुं वा धनुपहत्तं वा गाउअंवा गाउपहुत्तं वाजोअणं वा जोअणपुहत्तं वा जोअणसयं वा जोयणसयपुहत्तं वा जोयणसहस्संवा जोयणसहस्सपहत्तं वा जोअणलक्ख वा जोअणलक्खपुहत्तं वा उक्कोसेणं लोगं वा पासित्ता णं पडिवइज्जा, से तं पडिवाइओहिनाणं। वृ.अथ किं तत्प्रतिपातिअवधिज्ञानं?, सूरिराह-प्रतियात्यवधिज्ञानं यदवधिज्ञानं जघन्यतः सर्वस्तोकतया अंगुलस्यासंख्येयभागमात्रं संख्येयभागमात्र वा वालाग्र वा वालाग्रपृथक्त्वं वा लिक्षां वा-वालाग्राष्टकप्रमाणां लिक्षापृथक्त्वं वा, यूकां वा लिक्षाष्टकमानां यूकापृथक्त्वं वा, यवं वा-यूकाष्टकमानं यवपृथक्त्वं वा अंगुलं वा अंगुलपृथक्त् वा, एवं यावदुत्कर्षेण सर्वप्रचुरतया लोकं 'दृष्टवा उपलभ्य 'प्रतिपतेत्' प्रदीपइव नाशमुपायायात्। तस्य तथाविधक्षयोपशमजन्यत्वात्, तदेतत् प्रतिपात्यवधिज्ञानं, शेषं सुगम, नवरं 'कुक्षिः' द्विहस्तप्रमाणा 'धनुः' चतुर्हस्तप्रमाणं, पृथक्त्वं सर्वत्रापि द्विप्रभृतिरा नवभ्य इति सैद्धान्तिक्या परिभाषया द्रष्टव्यम्॥ मू. (७६)से किं तं अपडिवाइ ओहिनाणं?, अपडिवाइ ओहिनाणं जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ तेन परं अपडिवाइ ओहिनाणं, से तं अपडिवाइ ओहिनाणं । वृ. अथ किं तदप्रतिपात्यवधिज्ञानं ?, सूरिराह-अप्रतिपात्यवधिज्ञानं येनावधिज्ञानेन अलोकस्य सम्बन्धिनमेकमप्याकाशप्रदेशम्, आस्तां बहूनाकाशप्रदेशानित्यपिशब्दार्थः, पश्येत्, एतच्च सामर्थ्यमात्रमुपवर्ण्यते, न त्वलोके किञ्चिदप्यवधिज्ञानस्य दृष्टव्यमस्ति, एतच्च प्रागेवोक्तं, तत आरभ्याप्रतिपात्या केवलप्राप्तेरवधिज्ञानम, अयमत्र भावार्थ:-एतावति क्षयोपशमे सम्प्राप्ते सत्यात्मा विनिहतप्रधानप्रतिक्षयोधसंघातनरपतिरिव न भूयः कर्मशत्रुणा परिभूयते, किन्तु समासादितैतावदालोकजयोऽप्रतिनिवृत्तः शेषमपि कर्मशत्रुसङ्घातं विनिर्जित्य प्राप्नोति केवलराज्यश्रियमिति । तदेतप्रतिपाति अवधिज्ञानं । तदेवमुक्ताः षडप्यवधिज्ञानस्य भेदाः, सम्प्रति द्रव्याद्यपेक्षयाऽवधिज्ञानस्य भेदान् चिन्तयति म.(७७)तं समासओ चउव्विहं पन्नत्तं, तंजहा-दव्यओ खित्तओ कालओ भावओ. तत्थ दव्वओ णं ओहिनाणी जहन्नेणं अणंताई रूविदव्वाइं जाणइ पासइ उक्कोसेणं सवाई रूविदव्वाइं जाणइ पासइ, खित्तओनं ओहिनाणी जहनेणं अंगुलस्स असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाई अलोगे लोगप्पमाणमित्ताइ खंडाई जाणइ पासइ, कालओ णं ओहिनाणी जहन्नेणं आवलिआए असंखिज्जइभागं जाणइ पासइ उक्कोसेणं असंखिज्जाओ उस्सप्पिणीओ अवसप्पिणीओ अईयमनागयं च कालं जाणइ पासइ, भावओ णं ओहिनाणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy