________________
मूलं - ७१
यामेव क्षेत्रकालौ, तुशब्द एवकारार्थ:, स च भिन्नक्रमस्तथैव च योजितः, विकल्पश्चायं-कदाचितयोर्वृद्धिर्भवति कदाचित्र, यतो द्रव्यं क्षेत्रादपि सूक्ष्मं, एकस्मिन्नपि नमः प्रदेशेऽनन्तस्कन्धावगाहनात्, द्रव्यादपि सूक्ष्मः पर्यायः, एकस्मिन्नपि द्रव्येऽनन्तपर्यायसम्भवात्, ततो द्रव्यपर्यायवृद्धौ क्षेत्रकाला भजनीयावेव भवतः, द्रव्ये च वर्धमाने पर्याया नियमतो वर्धन्ते, प्रतिद्रव्यं संख्येयानामसंख्येयानां चावधिना परिच्छेदसंभवात्, पर्यायतो वर्द्धमाने द्रव्यं भाज्यं, एकस्मिन्त्रपि द्रव्ये पर्यायविषयावधिवृद्धिसम्भवात्, आह च भाष्यकृत
"भयणाए खेत्तकाला परिवडुंतेसु दव्वभावेसुं । दव्वे व भावो भावे दव्वं तु भयणिज्जं ॥"
अत्राह-ननु जघन्यमध्यमोत्कृष्टभेदभिन्नयोः अवधिज्ञानसंबन्धिनो: क्षेत्रकालयोरंगुलावलिकाऽसंख्येय भागादिरूपयोः परस्परं समयप्रदेशसंख्ययोः किं तुल्यत्वमुत हीनाधिकत्वम् ?, उच्यते, हीनाधिकत्वं, तथाहि आवलिकाया असंख्येयभागे जघन्यायवधिविषये यावन्तः समयाः तदपेक्षया अंगुलस्यासंख्येयभागे जघन्यायवधिविषय एव ये नभः प्रदेशास्ते असंख्येगुणाः, एवं सर्वत्रापि अवधिविषयात् कालादसंख्येयगुणत्वमधविविषयस्य क्षेत्रस्यावगन्तव्यम्, उक्तं "सव्वमसंखेज्जगुणं कालाओ खेत्तमोहिविसयं तु । अवरोप्परसंबद्धं समयप्पएसप्पमाणेणं ॥"
अथ क्षेत्रस्येत्थं कालादसंख्येयगुणता कथमवसीयते ?, उच्यते, सूत्रप्रामाण्यात्, तदेव सूत्रमुपदर्शयति
मू. ( ७२ )
सुमो अ होइ कालो तत्तो सुहुमयरं हवइ खित्तं । अंगुलसेढिमित्ते ओसप्पिणिओ असंखिज्जा ।।
वृ. 'सूक्ष्मं : ' श्लक्ष्णो भवति कालः, चशब्दो वाक्यभेदक्रमपोपदर्शनार्थो यथा सूक्ष्मस्तावत्कालो भवति यस्मादुत्पलपत्रशतभेदे प्रतिपत्रमसङ्ख्येयाः समया: प्रतिपाद्यन्ते ततः सूक्ष्मः काल:, तस्मादपि कालात् सूक्ष्मतरं क्षेत्रं भवति, यस्मादंगुलमात्रे क्षेत्रे- प्रमाणांगुलैकमात्रे श्रेणिरूपे नभःखण्डे प्रतिप्रदेशं समयगणनया असंख्येया अवसप्पिण्यस्तीर्थकृद्भिराख्याताः, इदमुक्तं भवति प्रमाणांगुलैकमात्रे एकैकप्रदेश श्रेणिरूपे नभः खण्डे यावन्तोऽसंख्येयास्ववसप्पिणीषु समयाः तावत्प्रमाणा: प्रदेशा वर्त्तन्ते, ततः सर्वत्रापि कालदसंख्येयगुणं क्षेत्रं, क्षेत्रादपि चानन्तगुणं द्रव्यं द्रव्यादपि चावधिविषया: पर्याया: संख्येयगुणा असंख्येयगुणा वा, उक्तं च“खेत्तपएसेहितो दवमणंतगुणितं पएसेहिं ।
,
दव्वेहिंतो भावो संखगुणोऽसंखगुणिओ वा ।। " से तं वडूमानयं ओहिनाणं ॥
मू. (७३) वृ. तदेतद्वर्द्धमानकमवधिज्ञानम् ।
९३
मू. (७४ ) से किं तं हीयमाणयं ओहिनाणं ?, हीयमाणयं ओहिनाणं अप्पसत्थेहिं अज्झवसाणद्वाणेहिं वट्टमाणस्स वट्टमाणचरित्तस्स संकिलिस्समाणस्स संकिलिस्समाणचरित्तस्स सव्वओ समंता ओहिपरिहायइ से तं हीयमाणयं ओहिनाणं ॥
वृ. अथ किं तद्धीयमानकमवधिज्ञानं ?, सूरिराह - हीयमानकमवधिज्ञानं कथञ्चिदवाप्तं सत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org