SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ नन्दी - चूलिकासूत्र र्द्धमानकमवधिमभिधत्ते, वर्द्धमानकश्चावधिरुत्तरोत्तरां विशुद्धिमासादयतो भवति नान्यथा तथा आह- 'विशुद्धमानस्य' तदावरणकमलकलङ्कविगमत उत्तरोत्तरविशुद्धिमासादयतः अनेनाविरतसम्यग्दृष्टेर्वर्द्धमानकावधेः शुद्धिजन्यत्वमाह, तथा 'विशुद्धयमानचारित्रस्य च', इदं च विशेषणं देशविरतसर्वविरतयोर्वेदितव्यम् 'सर्वतः ' सर्वासु दिक्षु समन्तादवधिः परिवर्द्धते । मू. (६५) जावइया तिसमयाहारगस्स सुहुमस्स पणगजीवस्स । ओगाहणा जहन्ना ओहीखित्तं जहन्नं तु ॥ वृ. सच कस्यापि सर्वजघन्यादारभ्य प्रवर्द्धते, ततः प्रथमत: सर्वजघन्यमवधिं प्रतिपादयति'त्रिसमयाहारकस्य' आहारयति- आहारं गृह्णातीत्याहारकः, त्रयः समयाः समाहृतास्त्रिसमयं, त्रिसमयमाहारकस्त्रिसमयाहारकः 'नामनाम्नैकार्थे समासो बहुल' मिति समासः तस्य त्रिसमयाहारकस्य 'सूक्ष्मस्य' सूक्ष्मनामकर्मोदयवर्त्तिनः 'पनकजीवस्य' पनकश्वासौ जीवश्च पनकजीवः, पनकजीवो वनपस्तिविशेषः, तस्य 'यावती' यावत्परिमाणा अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहना-तनुरित्यर्थः, 'जघन्या' त्रिसमयाहारकशेषसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जन्यं क्षेत्रं, तुशब्द एवकारार्थः, स चावधारणे, तस्य चैवं प्रयोगः - जघन्यमधिक्षेत्रमेतावदेवेति । ८८ अत्र चायं सम्प्रदायः - यः किल योजनसहस्रपरिमाणायाम्रो मत्स्यः स्वशरीरबाह्यैकदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धमात्मप्रदेशानामायामं संहृत्यांगुलासंख्येयभागबाहल्यं स्वदेहविष्कम्भायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहृत्यांगुलासंख्येयभागबाहल्यविष्कम्भां मत्स्यदेहविष्कम्भायामामात्मप्रदेशानां सूचि विरचयति, ततस्तृतीयसमये तामपि संहृत्यांगुलसंख्येय भागमात्र एव स्वशरीरबहिः प्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीये समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमवधेः क्षेत्रमालम्बनवस्तुभाजनमवसेयम्, उक्तं च “योजनसहस्रमानो मत्स्यो मृत्वा स्वकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स ग्राह्यः ॥ १ ॥ संहृत्य चाद्यसमये सह्यायामं करोति च प्रतरम् । सङ्ख्यातीताख्यांगुलविभागबाहल्यमानं तु ॥ २ ॥ स्वकतनुपृथुत्वमात्रं दीर्घत्वेनापि जीवसामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥३॥ सङ्ख्यातीताख्यांगुलविभागविष्कम्भमाननिर्दिष्टाम् । निजतनुपृथुत्वदीर्घं तृतीयसमये तु संहृत्य ॥४॥ उत्पद्यते च पनकः स्वदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्यावगाहना यावती भवति ॥१५॥ तावज्जधन्यमवधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसम्प्रदायात् समवसेयम् ॥६॥ आह- किमिति योजनसहस्त्रायामो मत्स्यः ? किं वा तस्य तृतीयसमये स्वदेहदेशे सूक्ष्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy