________________
८७
मूलं-६२ तिर्यग्मनुष्यावधौ तु तदपि भवति, उक्तं च
"नानागारो तिरियमनुएसुमच्छा सयंभुरमणोव्व।
तत्थ वलयं निसिद्धं तस्स पुण तयंपि होज्जाहि।।" तथा भवनपतिव्यन्तराणामूद्धर्वं प्रभूतोऽवधिर्भवति, वैमानिकानामधः, ज्योतिष्कनारकाणां तिर्यग, विचित्रो नरतिरश्चाम, आहच-'भवनवइ वंतरानं उड्डूं बहुगो होय सेसानं। नारगजोइसियाणं तिरियं ओरालिओ चित्तो।' तदेवमुक्तमानुगामिकमवधिज्ञानं, तथा चाह-से तं अनुगामियं ।
सम्प्रत्यनानुगामिकं शिष्यः पृच्छनाह
मू.(६३)से किंतं अनानुगामिअं ओहिनाणं. अनानुगामि ओहिनाणं से जहानामए केइ पुरिसे एगं महतं जोइट्ठाणं काउं तस्सेव जोइट्ठाणस्स परिपेरंतेहिं २ परिघोलेमाने २ तमेव जोइट्ठाणं पासइ, अन्नत्थ गए न पासइ, एवामेव अनानुगामिअं ओहिनाणं जत्थेव समुप्पज्जइ तत्थेव संखेज्जाणि असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा जोअणाइं जाणइ पासइ, अन्नत्थ गए न पासइ, से तं अनानुगामिअंओहिनाणं॥
वृ.अथकिं तदनानुगामिकमवधिज्ञानं?, सूरिराह-अनानुगामिकमवधिज्ञानं स-विवक्षितो यथानामकः कश्चित्पुरुपः पूर्णः सुखदुःखानामिति पुरुषः पुरिशयनाद्वा पुरुषः, एकं महज्ज्योतिः स्थानं-अग्निस्थानं कुर्यात्, कस्मिश्चित्स्थानेऽनेकज्वालाशतसंकुलमिग्निं प्रदीपं वा स्थूलवर्तिज्वालानुरूपमुत्पादयेदित्यर्थः, ततस्तत्कृत्वा तस्यैव ज्योतिः स्थानस्य परिपर्यन्तेषु २' परितः सर्वासुदिक्षु पर्यन्तेषु परिघूर्णन् २' परिभ्रमन् २ इत्यर्थः, तदेव ज्योति:स्थानं' ज्योति: स्थानप्रकाशितं क्षेत्रं पश्यति, अन्यत्र गतो न पश्यति, एष दृष्टान्तः उपनयमाह-'एवमेव' अनेनैव प्रकारेणानानगामिकमवधिज्ञानं यत्रैव क्षेत्रे व्यवस्थितस्य सतः समुत्पद्यते तत्रैव व्यवस्थितः सन् संख्येयानि असंख्येयानि वा योजनानि स्वावगाढक्षेत्रेण सहसम्बद्धानि असम्बद्धानि वा, अवधिर्हि कोऽपि जायमानः स्वावगाढदेशादारभ्य निरन्तरं प्रकाशयति कोऽपि पुनरपान्तरालेऽन्तरं कृत्वा परत: प्रकाशयति, तत उच्यते-सम्बद्धान्यसम्बद्धानि वेति, 'जानाति' विशेषाकारेण परिच्छिनत्ति 'पश्यति' सामान्यकारेणावबुध्यते, 'अन्यत्र' देशान्तरे गतो नैव पश्यति, अवधिज्ञानावरणक्षयोपशमस्य तत्क्षेत्रसापेक्षत्वात्। तदेवमुक्तमनानुगामिकं, सम्प्रति वर्द्धमानकमनवबुध्यमानः शिष्यः प्रश्नं करोति -
मू.(६४)से किं तं वड्डमाणयं ओहिनाणं?, २ पसत्थेसु अज्झवसाणट्ठाणेसु वट्टमाणस्स वड्डमाणचरित्तस्स विसुज्झमाणस्स विसुज्झमाणचरित्तस्स सव्वओ समंताओही वडुइ
वृ.अथ कि वर्द्धमानकमवधिज्ञानं?, सूरिराह-वर्द्धमानकमवधिज्ञानं प्रशस्तेष्वध्यवसायस्थानेषु वर्तमानस्य, इह सामान्यतो द्रव्यलेश्योपरञ्जितं चित्तमध्यवसायस्थानमुच्यते, तच्चानवस्थितं, तत्तल्लेश्याद्रव्यसाचिव्ये विशेषसम्भवात्, ततो बहुवचनमुक्तं, 'प्रशस्तेष्वि'ति, अनेन चाप्रशस्तकृष्णादिद्रव्यलेश्योपरञ्जितव्यवच्छेदमाह, प्रशस्तेष्वध्यवसायेषु वर्तमानस्येति, किमुक्तं भवति? -प्रशस्ताध्यवसायस्थानकलितस्य, 'सर्वतः समन्तादवधिः परिवर्द्धते इति सम्बन्धः, अनेनाविरतसम्यगृहटेरपि परिवर्द्धमानकोऽवधिर्भवतीत्याख्यायते, तथा वद्धमानचरित्तस्स' प्रशस्तेष्वध्यवसायस्थानेषु वर्धमानचारित्रस्य, एतेन देशविरतिसर्वविरतयोर्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org