________________
मूलं-५४
इंदियमनोभवं जं तं संववहारपच्चक्लं ।।" अकलङ्कोऽप्याह-"द्विविधं प्रत्यक्षज्ञानं-सांव्यवहारिकं मुख्यंच, तत्र सांव्यवहारिकमिन्द्रिया-- निन्द्रियप्रत्यक्ष मुख्यमतीन्द्रियज्ञान"मिति, केवलमनोमात्रनिमित्तं श्रुतज्ञानं च लोकेऽपि परोक्षमिति प्रतीतं, नापि सूत्रे कचिदपि प्रत्यक्षमिति व्यवहृतं ततो न तत्र कश्चिद्विवादः। तदेवं प्रत्यक्ष परोक्षं चेति भेदद्वयोपन्यासे कृते सति शिष्योऽनवबुध्यमानः प्रश्नं विधत्ते -
मू.(५५)से कितं पच्चक्खं?, पच्चक्खं दुविहं पन्नत्तं, तंजहा-इंदियपच्चक्खं नोइंदियपच्चक्खं च।
वृ. संशब्दो मागधदेशीयप्रसिद्धो निपातोऽथशब्दार्थो वर्त्तते, अथशब्दार्थश्च प्रक्रियाद्यर्थाभिधायी, यत उक्तं- "अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेष्वि"ति, इह चोपन्यासार्थो वेदितव्यः, 'कि'मिति परप्रश्ने, तत्प्रागुपदिष्टं प्रत्यक्ष (क्षं कि)मिति?, न्यायमार्गोपदर्शनार्थमाचार्यः शिष्यपृष्टपदानुवादपुरस्सरीकारणे प्रतिवचन-मभिधातुकाम आहपच्चक्खमित्यादि, एवमन्यत्रापि यथायोगं प्रश्ननिवचनसूत्राणां पातनिका भावनीया। __ प्रत्यक्षं द्विविधं प्रज्ञप्तं, तद्यथा- इन्द्रियप्रत्यक्षं नोइन्द्रियग्रत्यक्षंच, तत्र 'इदुपरमेश्वर्ये' उदितो नमिति नम् इन्दनादिन्द्रः-आत्मा सर्वद्रव्योपलब्धिरूपपरमैश्वर्ययोगात्, तस्य लिङ्ग-चिह्नभविनाभावि इन्द्रियम् इन्द्रियमिति' निपातनसूत्राद्रूपनिष्पत्तिः, तत् द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, तत्र द्रव्येन्द्रियं द्विधा-निवृत्तिरुपकरणं च, निर्वृत्तिर्नाम प्रतिविशिष्टः संस्थानविशेषः, सापि द्विधा-बाह्या अभ्यन्तरा च, तत्र बाह्या कर्णपर्पटकादिरूपा, सापि विचित्रा-न प्रतिनियतरूपतयोपदेष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे-भ्रूसमे नेत्रयोरुभयापार्श्वत: संस्थिते वाजिनो: मस्तके नेत्रयोरुपरिष्टादभाविनी तीक्षणे चाग्रभागे इत्यादिजातिभेदान्नानाविधाः, आभ्यन्तरातु निर्वृत्तिः सर्वेपामपि जन्तूनां समाना, तामेवाधिकृत्यामूनि सूत्राणि प्रावर्तिष्यन्तः। ___ सोइंदिएणं भंते! किंसंठाणसंठिए पन्नत्ते?, गोअमा! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते?, गोअमा? मसूरचंदसंठाणसंठिए पन्नत्ते, घाणिदिए णं भंते ! किसिंठाणसंठिए पन्नत्ते?, गोयमा! अइमुत्तसंठाणसंठिए पन्नत्ते, जिभिंदिएणं भंते ! किंसंठाणसंठिए पाते?, गोअमा! खुरप्पसंठाणसंठिए पन्नत्ते, फासिदिए णं भंते ! किंसंठाणसंठिए पन्नत्ते? गोअमा! नानासंठाणसंठिए पन्नत्ते" ___ इहस्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न बाह्याभ्यन्तरभेदः, तत्त्वार्थमूलटोकायां तथाभिधानात्, उपकरणं खङ्गस्थानीयाया बाह्यनिर्वृत्तेर्या खङ्गधारासमाना स्वच्छतरपुद्गलसमूहात्मिका अभ्यन्तरा निर्वृत्तिःतस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चिदर्थान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात्, कथञ्चिद्भेदश्च सत्यामपि तस्यामान्तरनिर्वृत्तौ द्रव्यादिनोपकरणस्य विधातसम्भवात्, तथाहि-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरानिर्वृत्तावतिकठोरतरघनर्जितादिना शक्त्युपधाते सति न परिच्छेत्तुमीशते जन्तवः शब्दादिकमिति, भावेन्द्रियमपि द्विधालिब्धरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयः सर्वात्मप्रदेशानां तदावरणकर्मक्षयोपशमः, उपयोग: स्वस्वविपये लब्धिरूपेन्द्रियानुसारेण आत्मनो व्यापारः, इह च द्विविधमपि द्रव्यभावरूपमिन्द्रियं गृह्यते, एकतरस्याप्यभावे इन्द्रियप्रत्यक्षत्वानुपपत्तेः, तत्र इन्द्रियस्य प्रत्यक्षं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org