________________
७४
नन्दी-चूलिकासूत्रं प्यस्य व्यभिचारानुपलम्भादिति निजदौवारिकस्य साद्गुण्यमवगम्य परराष्ट्रराजकीय-पुरुषसमीचीनतावधारणं परमार्थतः परोक्षं तद्वदात्मनोऽपि चक्षुरादिसाद्गुण्यावधारणतो वस्तुयाथात्म्यावधारणं परमार्थतः परोक्षं, नन्विदमिन्द्रियसाद्गुण्यावधारणतोवस्तुयाथात्म्यावधारणमनभ्यासदशामापन्नस्यापलभ्यते नाभ्यासदशामुपागतस्य, अभ्यासदशामापनो ह्यभ्यासप्रकर्ष-सामर्थ्यादिन्द्रियसाद्गुण्यमनपेक्ष्यैव साक्षादवबुध्यते, ततस्तस्येन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति?, तदयुक्तम्, अभ्यासदशामापन्नस्यापिसाक्षादनवबोधात्, तस्यापीन्द्रियद्वारेणावबोध-प्रवृत्तेरवश्यमिन्द्रियसाद्गुण्यापेक्षणात्, केवलमभ्यासप्रकर्षवशात्तदिन्द्रियसाद्गुण्यं झटित्येवा-वधारयति, पूर्वावधृतं च झटित्येव निश्चिनोति,
ततः कालसौक्ष्म्यात्तन्नोपलभ्यते, इत्थं चैतदङ्गीकर्त्तव्यम्, यतोऽवश्यमवायज्ञानमवग्रहहापूर्व, ईहा च विचारणात्मिका, विचारश्चेन्द्रियसाद्गुण्यसद्भूतवस्तुधर्माश्रितः, अन्यथैकतरविचाराभावेऽवायज्ञानस्य सम्यगज्ञानत्वायोगात, नखल्विन्द्रिये वस्तनिवासम्यगविचारितेऽवायज्ञानं समीचीनं भवति, ततोऽभ्यासदशापन्नेऽपीन्द्रियसाद्गुण्यावधारणमवसेयं, यदपि चोक्तम्-'न खल देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात्साक्षात्र भोक्तेति व्यपदेष्टं शक्यमिति' तदप्ययुक्तं, दृष्टान्दाान्तिकार्थवैषम्याद्, भोक्ता हि भुजिक्रियानुभवभागी भण्यते, भुजिक्रियाऽनुभवश्च देवदत्तस्य न हस्तेन व्यवधीयते, किन्तु साक्षात्, हस्तो हि कवलप्रक्षेप एव व्याप्रियते न परिच्छेदक्रियायामिन्द्रियमिवाहारक्रियानुभवेऽपि येन व्यवधानं भवेत्, ततः साक्षाद्देवदत्तो भोक्तेति व्यवहियते, इह तु वस्तूनामुपलब्धिरुक्तनीत्या चक्षुरादीन्द्रियसाद्गुण्यावगमानुसारेणापजायते, ततो व्यवधानान साक्षादुपलम्भक, आत्मेति । नन्विदं सर्वमप्युत्सूत्रप्ररूपणं, सूत्रे ह्यनन्तरमेवेन्द्रियाश्रितं ज्ञानं प्रत्युक्षमुपदेक्ष्यते-- _ 'पच्चक्खंदुविहं पन्नत्तं, तंजहा-इंदियपच्चक्खं नोइंदियपच्चक्खं चेति' सत्यमेतत्, किन्त्विदं लोकव्यवहारमधिकृत्योक्तं, न परमार्थतः, तथाहि-यदिन्द्रियाश्रितमपरव्यवधानरहितं ज्ञानमुदयते तल्लोके प्रत्यक्षमिति व्यवहृतं, अपरधूमादिलिङ्गनिरपेक्षतया साक्षादिन्द्रियमधिकृत्य प्रवर्तनात्, यत्पुनरिन्द्रियव्यापारेऽप्यपरं धूमादिकमपेक्ष्याग्न्यादिविषयं ज्ञानमुदयते तल्लोके परोक्षं, तत्र साक्षादिन्द्रियव्यापारासम्भवात्, यत्पुनरात्मनः इन्द्रियमप्यनपेक्ष्य साक्षादुपजायते तत्परमार्थतः प्रत्यक्षं, तच्चावध्यादिकं त्रिप्रकारं, ततो लोकव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानमनन्तरसूत्रे प्रत्यक्षमुक्तं, न परमार्थतः, अथोच्येत-अनन्तरसूत्रे न किमपि विशेषसूचकं पदमीक्षामहे, ततः कथमिदमवसीयते
संव्यवहारमधिकृत्येन्द्रियाश्रितं ज्ञानं प्रत्यक्षमुक्तं, न परमार्थत इति?, उच्यते, उत्तरसूत्रार्थपर्यालोचनात्, प्रत्यक्षभेदाभिधानानन्तरं हि सूत्रमाचार्यों वक्ष्यति-'परोक्खं दुविहं पन्नत्तं, तंजहाआभिनिबोहियनाणं सुयनाण'मित्यादि, तत्राभिनिबोधिकमवग्रहादिरूपम्, अवग्रहादयश्च श्रोत्रेन्द्रियाद्याश्रिता वर्णयिष्यवति, तद्यपि श्रोत्रादिन्द्रियाश्रितं ज्ञानं परमार्थतः प्रत्यक्षं तत्कथवग्रहादयः परोक्षज्ञानत्वेनाग्रेऽभिधीयन्ते?, तस्मादुत्तरत्रेन्द्रियाश्रितज्ञानस्य परोक्षत्वेनाभिधानादवसीयते--अनन्तरसूत्रेणोच्यमानमिन्द्रियाश्रितं ज्ञानं व्यवहारप्रत्यक्षमुक्तं, न परमार्थत इति स्थितं,
"एगंतेन परोक्खं लिंगयमोहाइयं च पच्चक्खं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org