SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ मूलं-१५४ २३७ एवमसंखेज्जाओ चित्तंतरगंडिया मुणेयव्वा। ___जाव जियसत्तुराया अजियजिणपिया समुप्पन्नो ।।३।। तथा अमरे'त्यादि, विविधेषु परिवर्तेषु-भवभ्रमणेषु जन्तूनामवगम्यते अमरनरतियग्निरयगतिगमनं, एवमादिका गण्डिका बहव आख्यायन्ते, सेत्तं गंडियाणुजोगे' सोऽयं गण्डिकानुयोगः। 'से किं त'मित्यादि, अथ कास्ताश्चूला:?, इह चूला शिखरमुच्यते, यथा मेरौ चूला, तत्र चूला इव चूला दृष्टिवादे परिकर्मसूत्रपूर्वानुयोगेऽनुक्तार्थसङ्ग्रहपरा ग्रन्थपद्धतयः, तथा चाह चूर्णिणकृत-"दिट्ठिवाए जं परिकम्मसुत्तपुव्वाणुयोगे न भणियं तं चूलासु भणियं"ति। __ अत्र सूरिराह-चूला आदिमानां चुतुण्णां, शेषाणि पूर्वाण्यचूलकानि, ता एव चूला आदिमानां चतुर्णा पूर्वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनीति भणिताः, आह च चूर्णिणकृत्-"ता एव चूला आइल्लपुव्वाणं चउण्हं चुल्लवत्थूणि भणिता" एताश्च सर्वस्यापि दृष्टिवादस्योपरि किल स्थापितास्तथैव च पठ्यन्ते, ततः श्रुतपर्वते चूला इव राजन्ते इति चूला इत्युक्ताः, तथा पोक्तं चूर्णिकृता-"सव्वुवरिट्ठिया पढिजंति, अतो तेसु य पव्वयचूला इव चूला" इति, तासां च चूलानामियं सङ्घया-प्रथमपूर्वसत्काश्चतस्रः द्वितीयपूर्वसत्का द्वादश तृतीयपूर्वसत्का अष्टौ चतुर्थपूर्वसत्का दश, तथा च पूर्वमुक्तं सूत्रे - . "चत्तारिदुवालस अट्ठचेव दस चेव चूलवत्थूणि। आइल्लाण चउण्हं सेसाणं चूलिया नत्थि। सर्वसङ्ख्यया चूलिकाश्चतुस्त्रिंशत्, ‘से त्तं चूलिय'त्ति अथैताश्चूलिकाः । 'दिट्ठिवायस्स न'मित्यादि, पाठसिद्धं, नवरं सोज्जा वत्थू'त्ति सङ्खयेयानि वस्तूनि, तानि पञ्चविंशत्युत्तरे द्वे शते, कथमिति चेत्, इह प्रथमपूर्वे दश वस्तूनि द्वितीये चतुर्दश तृतीये अष्टौ चतुर्थेऽष्टादश पञ्चमे द्वादश षष्ठे द्वे सप्तमे षोडश अष्टमे त्रिंशत् नवमे विंशतिः दशमे पञ्चदश एखादशे द्वादश द्वादशे त्रयोदश त्रयोदशे त्रिंशच्चतुर्दशे पञ्चविंशतिः, तथा सूत्रे प्राक् पूर्ववक्तव्यतायामुक्तं "दस चोद्दस अट्ठट्ठारसेव बारस दुवे य [मूल]वत्थूणि। सोलस तीसा वीसा पनरस अनुप्पवायंमि।। बारस एक्कारसमे बारसमे तेरसेव वत्थणि तीसा पुण तेरसमे चोद्दसमे पन्नवीसा उ॥ सर्वसङ्ख्यया चामूनि द्वे शते पञ्चविंशत्यधिके, तथा सङ्घयेयानि चूलावस्तूनि, तानि च चतुस्त्रिशत्सङ्ख्याकानि। साम्प्रतमोघतो द्वादशाङ्गाभिधेयमुपदर्शयति मू.(१५५) इच्चेयंमि दुवालसंगे गणिपिडगे अनंता भावा अनंता अभावा अनंता हेऊ अनंता अहेउअनंता कारणा अनंता अकारणाअनंता जीवा अनंता अजीवा अनंता भवसिद्धिया अनंता अभवसिद्धिआअनंता सिद्धाअनंता असिद्धा पन्नता मू.(१५६) 'भावमभावा हेऊमहेउ कारणमकारणे चेव। जीवाजीवा भविअमभविआसिद्धा असिद्धाय॥ वृ.इत्येतस्मिन् द्वादशाङ्गेगणिपिटके' एतत्पूर्वदेवव्याख्येयं, अनन्ता भावा-दीवादयः पदार्थाः प्रज्ञप्ता इति योगः, तथा अनन्ता अभावा:- सर्वभावानां पररूपेणासत्त्वात् त एवानन्ता अभावा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy