SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं पञ्चविंशतिः सिद्धौ नव सर्वार्थे तत एकादश सिद्धौ पश्चदश सर्वार्थे तत: सप्तदश सिद्धौ एकत्रिंशत्सर्वार्थे तत एकोनविंशत्सिद्दौ अष्टाविंशतिः सर्वार्थे ततः सिद्धो चतुर्दश षड्विशतिः सर्वार्थे ततः पञ्चाशत्सिद्धो त्रिसति सर्वार्थे ततोऽशीतिः सिद्धो चत्वारः सर्वार्थे ततः पञ्च सिद्धो नवतिः सर्वार्थे ततश्चतुःसप्ततिर्मुक्तों पञ्चषष्टिः सर्वार्थसिद्धे तत: सिद्धौ द्विसप्ततिः सप्तविंशतिः सर्वार्थे एकोनपञ्चाशत् मुक्तौ व्युत्तरंशत्तं सर्वार्थे तत एकोनविंशत्सिद्धौ, उक्तं च "सिवगइसव्वट्ठेहिं दो दो ठाण विसमुत्तरो नेया। जाव उणतीसट्टाणे गुणतीसं पुण छवीसाए ।। अत्र 'जावे'त्यादि यावदेकोनत्रिंशत्तमे स्थाने त्रिकरूपेषड्विशतौ प्रक्षिप्तायामेकोनत्रिंशद्भवति, एवंद्वयादिविषमोत्तरा गण्डिका असङ्घयेयास्तावद्वक्तव्या यावदजितखामिपिता जितशत्रुः समुत्पन्नः नवरं पाश्चात्यायां र गण्डिकायां यदन्त्यमङ्कस्थानं तदुत्तरस्यामादिमं द्रष्टव्यं, तथा प्रथमायां गण्डिकायामादिममङ्कस्थानं सिद्धौ द्वितीयस्यां सर्वार्थे तृतीयस्यां सिद्दौ चतुर्थ्यां सर्वार्थे, एवमसङ्ख्यास्वपि गण्डिकाखादिमान्त्यान्यङ्कस्थानानि क्रमेणैकान्तरितानी शिवगतौ सर्वार्थे च वेदितव्यानि, एतदेव दिग्मात्रप्रदर्शनतो भाव्यते, तत्र प्रथमायां गण्डिकायामन्त्यमङ्कस्थानमेकोनत्रिंशत्तत एकोनत्रिंशद्वारान् सा एकोनत्रिंशदूर्ध्वाधःक्रमेण स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपः, द्वितीयादिषु चाङ्केषु दुग पण नवगं तेरसे'त्यादयः त्रणेण प्रक्षेपणीया राशयः प्रक्षिप्यन्ते, तेषु प्रक्षिप्तेषु च सत्सु पद्यत् क्रमेण भवति तावन्तस्तावन्त: क्रमेण सिद्धौ सर्वार्थे इत्येवं वेदितव्याः, तद्यथा-एकोनत्रिंशत्सर्वार्थ सिद्धावेकत्रिंशत्ततश्चतुस्त्रिंशत्सर्वार्थे सिद्धावष्टात्रिंशत्ततो द्विचत्वारिंशत्सर्वार्थे षट्चत्वारिंशत्सिद्धौ तत एकपञ्चाशत्सर्वार्थे पञ्चविंशत्सिद्धौ सप्तत्रिंशत्सर्वार्थे सिद्धावेकचत्वारिंशत्रिचत्वारिंशत्सर्वार्थे सप्तपञ्चाशत्सिद्धौ ततः पञ्चपञ्चाशत्सर्वार्थे चतुःपञ्चाशत्सिद्धौ चत्वारिंशत्सर्वार्थे द्विचत्वारिंशत्सिद्धौ सर्वार्थे षट्सप्ततिः सिद्धो नवनवतिः षडुत्तरशतं सर्वार्थे त्रिंशत्सिद्धौ एकत्रिंशत्सर्वार्थे सिद्धौ षोडशाधिकं शतं सर्वार्थे शतं सिद्धावेकनवतिः सर्वार्थेऽष्टानवतिः त्रिपञ्चाशत्सिद्धौ पञ्चसप्ततिः सर्वार्थे सिद्धावेकोनत्रिशंशतं पञ्चपञ्चाशत्सर्वार्थे, एषा द्वितीया गण्डिका, अस्यां च गण्डिकायामन्त्यमङ्कस्थानं पञ्चपञ्चाशत् ततस्तृतीयस्यां गण्डिकायामिदमेवादिममङ्कस्थानं, ततः पञ्चपञ्चाशदेकोनत्रिंशद्वारान् स्थाप्यते, तत्र प्रथमेऽङ्के नास्ति प्रक्षेपो, द्वितीयादिषुचाङ्केषुक्रमण द्विकपञ्चनवत्रयोदशादय: पूर्वोक्तराशयः क्रमेण प्रक्षेपणीयाः प्रक्षिप्यन्ते, इह चादिममङ्कस्थानं सिद्धो ततस्तेषु प्रक्षेपणीयेषु राशिषु प्रक्षिप्तेषु सत्सु यत् २ क्रमेण भवति तावन्तस्तावन्तः प्रथमादङ्कादारभ्य सिद्धो सर्वार्थे इत्येवं क्रमेण वेदितव्याः, एवमन्याखपि गण्डिकासूक्तप्रकारेण भावनीयं, उक्तं च "विसमुत्तरा य पढमा एवमसंखविसमुत्तरा नेया। सव्वत्थवि अंतिल्लं अन्नाए आइमं ठाणं ॥१॥ अउणत्तीसंवारा ठावेउं नत्थि पढम उक्खेवो। सेसे अडवीसाए सव्वत्थु दुगाइउक्खेवो॥१॥ सिवगइ पढमादीए बीआए तह य होइ सव्वतु। इय एगंतरियाई सिवगइसव्वट्ठठाणाई ।।२।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy