________________
मूलं-१२०
१७३ सुप्तस्योत्थापकः स एव दृष्टान्तः प्रतिबोधकदृष्टान्तस्तेन, मल्लकं-शरावं तदेव दृष्टान्तो मल्लकदृष्टान्तस्तेनच, अथ केयं प्रतिबोधकदृष्टान्तेन, व्यञ्जनावग्रहस्य प्ररूपणेति शेषः, आचार्य आहप्रतिबोधकदृष्टान्तेनेयं व्यञ्जनावग्रहप्ररूपणा, स यथानामको -यथासम्भवनामधेयकः कोऽपि पुरुषः, अत्र सर्वत्राप्येकारो मागधिकभाषालक्षणानुसरणात्, तच्च प्रागेवानेकश उक्तं, कञ्चिदनिर्दिष्टनामानं यथासम्भवनामकं पुरुष सुप्तं सन्तं प्रतिबोधयेत्, कथमित्याह
'अमुक अमुकं' इति, अत्र एवमुक्ते सति 'चोदको' ज्ञानावरणकर्मोदयतः कथितमपि सृत्रार्थमनवगच्छन् प्रश्नं चोदयतीति चोदकः, यथावस्थितं सूत्रार्थं प्रज्ञापयतीति प्रज्ञापकोगुरुः, तं एवं' वक्ष्यमाणेन प्रकारेणावादीत्, भूतकालनिर्देशोऽनादिमानागम इति ख्यापनार्थो, वदनप्रकारमेव दर्शयति-किमेकसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति?-ग्राह्यतामुपगच्छन्ति, किंवा द्विसमयप्रविष्टाः? इत्यादि सुगम, एवं वदन्तं चोदकं प्रज्ञापकः (एवं-वक्ष्यमाणेन प्रकारेण) 'अवादीत्' उक्तवान्-'नो एकसमयप्रविष्टा' इत्यादि, प्रकटार्थं यावन्नो सङ्ख्येयसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, नवरमयं प्रतिषेधः स्फुटप्रतिभासरूपार्थावग्रहलक्षणविज्ञानग्राह्यतामधिकृत्य वेदितव्यो, यावता पुनः प्रथमसमयादप्यारभ्य किञ्चित्किञ्चिदव्यक्तं ग्रहणमागच्छन्ति प्रतिपनव्यं? जवंजणांग्गहणमिति भणियं विनाणं अव्वत्त'मिति वचनप्रामाण्यात 'असंखेज्जे'त्यादि, आदित आरभ्य प्रतिसमयप्रवेशनेनासङ्ख्येयान् समयान् यावत् ये प्रविष्टास्तेऽसङ्ख्येयसमयप्रविपष्टाः पद्गला ग्रहणमागच्छन्ति-अर्थावग्रहरूपविज्ञानग्राह्यतामुपपद्यन्ते, असङ्ख्येयसमयप्रविष्टेषु तेषु चरमसमये प्रविष्टाः पुद्गला अर्थावग्रहविज्ञानमुपजनयन्तीत्यर्थः। ___ अर्थावग्रहविज्ञानाच्च प्राक् सर्वोऽपिव्यञ्जनावग्रह: एषा प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा । व्यञ्जनावग्रहस्य च कालो जघन्यत आवलिकाऽसङ्घयेयभागः, उत्कर्षतः सङ्खयेयावलिकाः, ता अपि सङ्ख्येया आवलिका आनपानपृथक्त्वकालमाना वेदितव्याः, यत उक्तम्
"वंजणवग्गहकालो आवलियासंखभागतुल्लो उ।
___ थोवा उक्कोसा पुण आणापाणूपहुत्तंति।" 'सेत्त'मित्यादि निगमनं, संयं प्रतिबोधकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा। 'से किंत'मित्यादि. अथ कयं मल्लकदृष्टान्तेन व्यञ्जनावग्रहस्य प्ररूपणा?, सोऽनिर्दिष्टस्वरूपो यथानामकः कश्चित्पुरुपः 'आपाकशिरसः' आपाकः प्रतीत: तस्य शिरसो मल्लक-शरावं गृहीत्वा, इदं हि किल रूक्षं भवति ततोऽस्योपादानं, तत्र मल्लके एवमुदकबिन्दुं प्रक्षिपेत् स नष्टः, तत्रैव तद्भावपरिणतिमापन इत्यर्थः, ततो द्वितीयं प्रक्षिपेत्सोऽपिविनष्टः, एवं प्रक्षिप्यमाणेषु २ भविष्यति स उदकबिन्दुर्यस्तन्मल्लकं 'रावेहिइ'इति देश्योऽयं शब्द: आर्द्रतां नेष्यति, शेषं सुगमं यावदेव'मित्यादि, एवमेव उदकबिन्दुभिरिव निरन्तरं प्रक्षिप्यमाणैः प्रक्षिप्यमाणैरन्तैः शब्दरूपतापरिणतः पुद्गलैर्यदा तद्व्यञ्जनं पूरितं भवति तदा हुङ्कारं मुञ्चति-तदा तान्पुद्गलाननिर्द्दिश्यरूपतया ‘परिच्छिनत्तीति भावार्थः । अत्र व्यञ्जनशब्देनोपकरणेन्द्रियं शब्दादिपरिणतं वा द्रव्यं तयोः सम्बन्धो वा गृह्यते, तेन न कश्चिद्विरोधः, आह च-भाष्यकृत्
"तोएण मल्लगंपिव वंजणमापूरियंति जं भणियं। तंदवमिदियं वा तस्संबंधो व न विरोहो॥".
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org
www.