________________
मूलं-८२
१०५ इत्ति भणियं होड़. घडोऽणेण चितिओत्ति जाणइ'त्ति । चशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसृचकः । तथा विपुला-विशेषग्राहिणी मतिः विपुलमतिः, धटोऽनेन चिन्तितः, स च सौवर्णः पाडलिपत्रकोऽद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभृतविशेषविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, आह च भाष्यकृत
"विपुलं वत्थुविसेसणनाणं तग्गाहिणी मई विपुला।
चितियमनुसरइ घडं पसंगओ पज्जवसएहिं ।।" चूणिकृदपि आह-"विपुला मई विपुलमई बहुविसेसगाहिणीत्ति भणियं होइ, दिद्रुतो जहाऽनेन घडो चिंतिओ, तं च देसकालाइअनेगपज्जायविपेसविसिटुं जाणइ'त्ति । चशब्दः पूर्ववत्, अस्यां च व्युत्पत्तो स्वतन्त्रमेव ज्ञानमभिधेयं, यदा पुनस्तद्वानभिधेयो विवक्ष्यते तदैवं व्यत्पत्तिऋज्वी-सामान्यग्राहिणी मतिरस्य सऋजुमतिः, तथा विपुला-विशेषग्राहिणी मतिरस्य स विपुलमतिः।
तत् मनःपर्यायज्ञानं द्विविधमपि समासतः संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च,
तत्र द्रव्यतो णमिति वाक्यालङ्कार ऋजुमतिरनन्तान् अनन्तप्रदेशिकान्-अनन्तपरमाण्वात्मकान् स्कन्धान्-विशिष्टैकपरिणामपरिणतान् अर्द्धतृतीयद्वीपसमुद्रान्तर्वतिपर्याप्तसंज्ञिञ्चन्द्रियैर्मनस्त्वेन परिणामितान् पुद्गलान् पुद्गलसमूहानित्यर्थः जानाति-साक्षात्कारेणावगच्छति ‘पासइ'त्ति इह मनस्त्वपरिणतैः स्कन्धैरालोचितं बाह्यमर्थं घटादिलक्षणं साक्षादध्यक्षतो मनःपर्यायज्ञानी न जानाति, किन्तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तितोऽनुमानतः, आहच भाग्यकृत"जाणइ वज्झेऽनुमानेनं" इत्थं चैतदङ्गीकर्तव्यम्, यतो मूर्त्तद्रव्यालम्बनमेवेदं मन:पर्यायज्ञानमिष्यते, मन्तारस्त्वमृतमपि धर्मास्तिकायादिकं मन्यन्ते, ततोऽनुमानत एव चिन्तितमर्थमवबुध्यन्ते नान्यथेति प्रतिपत्तव्यम्, ततस्तमधिकृत्य पश्यीत्युच्यते, तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात्, आह च चूर्णिणकृत- "मुणियत्थं पुण पच्च्क्ख ओ न पेक्खइ, जेण मनोदवालंबनं मुत्तममुत्तं वा, सो य छउमत्थो तं अनुमानओ पेक्खइ, अतो पासणिया भणिया" इति।
अथवा सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत्तद्र्व्याद्यपेक्ष्य वैचित्र्यसम्भवादनेकविध उपयोग: सम्भवति, यथाऽत्रैव ऋजुमतिविपुलमतिरूपः, ततो विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जानातीत्युच्यते, सामान्यमनोरूपद्रव्याकारपरिच्छेदापेक्षया तु पश्यतीति, तथा चाह चूर्णिणकृत-"अहवा छउमत्थस्स एगविहखओवसमलंभेऽवि विविहोवओगसंभवो भवइ, जहा एत्थेव ऋजुमइविपुलमईणं उवओगो, अओ विसेससामानत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो" इति।
अत्र 'एगविहखओवसमलंभेवित्ति सामान्यत एकरूपेऽपि क्षयोपशमलम्भेऽपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद्विविधोपयोगसम्भवो भवतीति, तदेवं . विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शनरूप उक्तः, परमार्थतः पुनः सोऽपि ज्ञानमेव, यत: सामान्यरूपमपि मनोद्रव्यकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनम्, अत एव सूत्रेऽपि दर्शनं चतुर्विधमे..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org