SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं तइउप्पाएण तओ इह जंघाचारणो एइ । पढमेणमानुसोत्तरनगंस नंदिस्सरंतु बिइएणं । एइ तओ तइएणं कयनेइयवंदणो इहयं ।। पढमेण नंदनवने बिइउप्पाएण पंडगवनंमि। एइ इहं तइएणं जो विज्जाचारणो होइ ।।" तथा सर्व-विण्मूत्रादिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति ?-यस्य मूत्रं विट श्लेषमा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वोषधः, आद्यशब्दादामर्षोषध्वादिलब्धिपरिग्रहः, तथा आमर्षी पध्यादीनामन्यतमामृद्धिमवध्य॒द्धि वा प्राप्तस्य मनःपर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये त्ववध्वृद्धिप्राप्तस्यैवेति नियमामचक्षते, तदयुक्तं, सिद्धप्राभृतादाववधिमन्तरेणापि मनःपर्यायज्ञानस्यानेकशोऽभिधानात्। ___ अत्राह--मनुष्याणामुत्पद्यतेइत्युक्ते सामर्थ्यादमनुष्याणां नोत्पद्यते इत्यनुमीयते, ततः कश्मुच्यते 'नो अमनुस्साणं उप्पज्जइ' इत्यादि, निरर्थकत्वाद् ?, उच्यते, इह त्रिधा विनेयाः, तद्यथाउद्घटतिज्ञा मध्यबुद्धयः प्रपञ्चितज्ञाश्च, तत्र ये उद्घटितज्ञा मध्यबुद्धयो वा ते यथोक्तं सामर्थ्य - मवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलाः ते प्रपञ्चितमेवावगन्तुमीशते ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्यापि विपक्षनिषधस्याभिधानं, महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते, ततो न कश्चिद्दोषः। मू.(८२)तं च दुविहं उप्पज्जइ, तंजहा-उज्जुमई यविउलमईय, तंसमासओचउन्विहं पन्नत्तं, तं जहा-दव्वओ खित्तओ कालओ भावओ, तस्थ दव्वओ णं उज्जुमई णं अनंते अनंतपएसिए खंधे जाणइ पासइ ते चेव विउलभई अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ, खेत्तओ णं उज्जुमई अ जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे जाव इमसे रयणप्पभाए पुढवीए उवरिमहडिल्ले खुड्डापयरे उड्डु जाव जोइसस्स उवरिमतले, तिरियं जाव अंतोमनुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पन्नरस्सुकम्मभूमिसुतीसाए अकम्मभूमिसु छप्पन्नार अंतरदीवगेसु सत्रिपंचेंदिआणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्राइज्जेहिमंगुलेहिं अब्भहिअतरं विउलतरं विसुद्धतरंवितिभिरतरागं जाणइ पासइ, भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासइ, त चेव विउलमइ अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ वृ.तत्र मनःपर्यायज्ञानमृद्धिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमानं द्विधोत्पद्यते, तद्यथा-ऋजुमतिश्च विपुलमतिश्च, तत्र मननंमतिः, संवेदनमित्यर्थः, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः धटोऽनेन चिन्तित इत्यादिसामान्यकाराध्यवसायनिबन्धनभृता कतिपयपर्याविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, उक्तं च भाष्यकृता "रिजु सामन्नं तम्मत्तगाहिणी रिजुमई मनोनाणं । पायं विसेसविमुहं घटमित्तं चिंतियं मुणड ।।" चूर्णिकृदप्याह-."उज्जु नं विसेसविमुहं उवलहई, नाईव बहुविसेसविसिटुं अत्थं उवलम-- For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003382
Book TitleAgam Sutra Satik 44 Nandisootra ChulikaSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages265
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 44, & agam_nandisutra
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy