________________
अध्ययनं - २, [ नि. ९९] वक्ष्यति हि
"एए उ संगे समइक्कमित्ता, सुहुत्तरा चेव हवंति सेसा । जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥" इति सूत्रार्थः । अतः किं विधेयमित्याहमू. ( ६६ )
एवमाणाय मेहावी, पंकभूयाउ इत्थीओ। नो ताहिं विनिहनिज्जा, चरे अत्तगवेसए ॥
वृ. 'एवम्' इत्यनन्तरोक्तेन प्रकारेणात्यन्तासक्तिहेतुत्वलक्षणेन 'आज्ञाय' स्वरूपाभिव्यासा अवगम्य 'मेधावी' अवधारणशक्तिमान् पङ्कः- कर्दमः तद्भूताः - मुक्तिपथप्रवृत्तानां विबन्धकत्वेन मालिन्यहेतुत्वेन च तदुपमाः, तुरवधारणार्थ:, ततः पङ्कभूता एव स्त्रियः, पठ्यते च'एवमादाय मेहावी जहा एया लहुस्सग'त्ति 'एवम्', अनन्तर एव वक्ष्यमाणमर्थम् 'आदाय' बुद्धा गृहीत्वा मेधावी, तमेवाह - 'यथे' त्युपदर्शने, 'एता: 'स्त्रियः 'लहुस्सग 'त्ति तुच्छाशयत्वादिना लध्व्यः, ततः किमित्याह- 'नो' नैव 'ताभिः ' 'स्त्रीभिः ' 'विनिहन्यात्' विशेषेणसंयमजीवितव्यव्यपरोपणात्मकेनातिशयेन च सामस्त्यतदुच्छेदरूपेणतिपातयेत्, आत्मानमिति गम्यते, कृत्यमाह-'चरेत्' धर्मानुष्ठानमासेवेत, आत्मानं गवेषयते-कथं मयाऽऽत्मा भवान्निस्तारणीय इत्यन्वेषयते आत्मगवेषकः, 'सिद्धिः स्वरूपापत्ति' रिति वचनात् सिद्धिर्वा आत्मा, ततः कथं ममासौ स्यादित्यन्वेषक: आत्मवगेषको, यद्वा आत्मानमेव गवेषयते इत्यात्मगवेषकः, किमुक्तं भवति ? - चित्रालङ्कारशालिनीरपि स्त्रियोऽवलोक्य तद्दृष्टिन्यासस्य दुष्टतावगमात् झगिति ताभ्यो दृगुपसंहारत आत्माऽन्वेष्टैव भवति, उक्तं हि
"चित्तभित्ति न निज्झाए, नारिं वा सुअलंकियं ।
Jain Education International
९३
भक्खरं पिव दट्ठूणं दिट्ठि पडिसमाहरे ।।"
इति सूत्रार्थः ॥ सम्प्रति प्रतिमाद्वारं विवृण्वन् 'यस्यैताः परिज्ञाता' इत्यादिसूत्रसूचितं चैदंयुगीनजनदाढर्योत्पादकं दृष्टान्तमाह
नि. [१००]
नि. [ १०१ ]
नि. [१०२ ]
नि. [ १०३]
नि. [ १०४ ]
नि. [१०५ ]
उसभपुरं रायगिहं पाडलिपुत्तस्स होइ उप्पत्ती । नंदे सगडाले थूलभद्द सिरिए वररुई य॥ तिण्हं अनगाराणं अभिग्गहो आसि चउण्ह मासाणं । वसहीमित्तनिमित्तं को कहि वुत्थो ? निसामेह || गणियाघरम्मि इक्को वुत्थो बीओ उ वग्घवसहीए । सप्प सही तइओ को दुक्करकारओ इत्थं ? | वग्घों वा सप्पो वा सरीरपीडाकारा उ भइयव्वा । नाणं व दंसणं वा चरितं (यं) व न पच्चला भित्तुं ॥ भयकंपि थूलभद्दो तिक्खे चकम्मिओ न उण छिन्नो । अग्गिसिहाए वुत्थो चाउम्मासे न उण दड्डो ॥ अन्नोऽवि य अनगारो भणमाणोऽहंपि थूलभद्दसमो । कंबलओ चंदनयाइ मइलिओ एगराईए ।
For Private & Personal Use Only
www.jainelibrary.org