________________
अध्ययनं-२,[ नि. ९३]
उवगरणमामेसिं पुरिसावेक्खाए बहुभेयं ।।" अथवा अस्तु जिनकल्पिकानामुपकरणाभावः, तथापि धृतिशक्तिसंहननश्रुतातिशययुक्तानामेव तत्प्रतिपत्तिः अथ रथ्यापुरुषाणामपि?, यद्याद्यो विकल्पस्तत्किमेवंविधाः सम्प्रत्यपि सन्ति न वा ?, सन्ति चेदुपलब्धिलक्षणप्राप्ता उपलभ्येरन्, अनुपलब्धिलक्षणप्राप्ताश्च कुतः सत्त्वेन निश्चीयन्ते?, अथ न सन्ति, तादृशामेव जिनकल्पप्रतिपत्तिः, तर्हि वृथैव -
___ "मनपरमोहिपुलाए आहारग खवग उवसमे कप्पे ।
संजमतिय केवलि सिज्झणा य जंबुम्मि वोच्छिन्ना।" इत्याप्तवचनानाश्रयणं, यदि रथ्यापुरुषाणामपोति कल्प्यते, तिरश्चामपि तत्कल्पना स्तु, अथ देशविरतिभाज एव त इति न तेषां तत्प्रतिपत्तिः, तर्हि सर्वविरतिस्तत्कारणं, तथा च तद्वता एकेन यत्कृतं तत्किमखिलैरपी तद्वद्भिराचरणीयमथ तथाविधशक्तियुक्तैरेव ?, यद्याद्यो विकल्पस्तदैकस्मिन् मासषण्मासादिकं तपश्चरत्नन्यैरपि तच्चरणीयं स्याद्, अथ द्वितीयः पक्षस्तर्हि जिनकल्पोऽपि तथाविधशक्तियुक्तरैव प्रतिपत्तव्यः, अथ तथाविधशक्तिविकलानां तत्तपश्चरतां बहुतरदोषसम्भव इति न तच्चरणं, तदिहापि तुल्यं, तथाहि-सम्भवत्येवेदानीन्तनयतीनां तथाविधशक्तिसंहननविकलतया हिमकणानुषक्तशीतादिषु बहुतरदोषहेतुकमनग्यारम्भादिकं तथा तथाविधाच्छादनाभावात: शीतादिखेदितानां शुभध्यानाभावेन सम्यक्त्वादिविचलनम्, उक्तं च वाचकैः
"शीतवातातपैर्दशैर्मशकैश्चापि खेदितः ।
मा सम्यक्त्वादिषु ध्यानं, न सम्यक् संविधास्यति॥" यच्च 'जिताचेलपरीषहो मुनि' रिति वचनतो न चीवरं धर्मोपकारीति, तत्र जिताचेलपरीषहत्वं चेलाभावनैवाहोश्चिदेषणाशुद्धतत्परिभोगेनापि?, यदि चेलाभावेनैव, ततः क्षुत्परीषहजयनमप्याहाराभावेनैवेति व्रतग्रहणकाल एवानशनमायातम्, एतच्च भवतोऽपि नाभिमतं, ततः परिशुद्धोपभोगितया जिताचेलपरीषहत्वमिति द्वितीय एव पक्षः, स चास्मत्पथवत्येवेति न कुतोऽपि चीवरस्य धर्मानुपकारित्वनिश्चयः, अथ परेषां कषायकारणत्वेन चारित्रबाधकत्वं चीवरस्य, तहि धर्मादयोऽपि कस्यचित् कषायकारणं नवा?, न तावत्र, तेऽपि कस्यचित्कषायहेतव इति चोवरवत्तेऽपि हातव्याः, आह च
"अस्थि य किं किंचिजए जस्स व कस्स व कसायबीजं तं । वत्थु न होज्ज? एवं धम्मोऽवि तुमे न घेतव्यो ।।१।। जेन कसायनिमित्तं जिनोऽवि गोसालसंगमाईणं ।
धम्मो धम्मपरावि य पडिनीयाणं जिनमयं च ॥२॥ अथैषां मुक्त्यङ्गतया कषायहेतुत्वेऽपि न हेयता, तदिहापि समानम्, उक्तंच वाचकसिद्धसेने
"मोक्षाय धर्मसिद्धयर्थं, शरीरं धार्यते यथा । शरीरधारणार्थं च, भैक्षग्रहणमिष्यते ।।१।।
तथैवोपग्रहार्थाय, पात्रं चीवरमिष्यते। जिनैरुपग्रह: साधोरिष्यते न परिग्रहः ।।२।।" इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org