SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८६ उत्तराध्ययन- मूलसूत्रम् - १-२/६२ केषाञ्चित् दुस्त्यजमिति तदपि न परिहार्यं, मुक्त्यङ्गतापक्षाश्रयणे च किं चीवरेणापराद्धम् ?, तस्यापि तथाविधशक्तिविकलानां शीतकालादिषु स्वाध्यायाद्युपष्टम्भकत्वेन मुक्त्यङ्गत्वाद्, अभ्युपगम्य च मूच्छहितुत्वमुच्यते न हि निगृहीतात्मनां क्वचिन्मूर्च्छाऽस्ति तदुक्तम्"सव्वत्थुवहिणा बुद्धा, संरक्खणपरिग्गहे । अवि अप्पणोऽवि देहम्मि, नायरंति (यं) ।” ति, नापि धारणादिमात्रेण, एवं हि शीतकालादौ प्रतिमापप्रतिपत्त्यादिषु केनचिद्भक्त्यादिनोपरि क्षिप्तस्यापि चीवरस्य परिग्रहताप्रसङ्गः, अथ तत्र स्वयंग्रहाभावाददोष:, तर्हि स्वयंग्रह: परिग्रहत्वे हेतु:, तथा च कुण्डिकाद्यपि नोपादेयं, दृष्टेष्टविरोधि चेदम्, अथ तत्र मूर्च्छाया अभावादपरिग्रहत्वम् एवं सति संयमरक्षणायोपादीयमाने चीवरे तदभावात्तदस्तु उक्तं च "जंपि वत्थं व पायं वा, कंबलं पायपुंछणं । तंपि संजमलज्जट्ठा, धरंति परिहरति य ।। ' अथ संसक्तिविषयतया, यद्येवमाहारेऽपि सा किमस्ति नास्ति वा?, न तावन्नास्ति, कृमिकण्डूपदाद्युत्पातस्य तत्र प्रतिपाणि प्रतीतत्वात्, अथास्ति परं यतनया न दोष:, तदितरत्रापि तुल्यं । कषायकारणत्वेन चेत्, तत्किमात्मनः परेषां वा ?, यद्यात्मनस्तदा श्रुतमपि केषाञ्चिदहङ्कारहेतुत्वेन कषायकारणमिति तदपि नोपादेयं स्यात्, अथ विवेकिनां त तदहंकृतिहेतु:, "प्रथमं ज्ञानं ततो दये" ति नीतितो धर्मोपकारि चेति तदुपादानं, चीवरेऽपि समानमेतत्, अथ चीवरस्य धर्मानुपकारित्वादतुल्यता, ननु कुत एतदवसितं किमचीवरास्तीर्थकृत इति श्रुतेरुत जिनकल्पांकर्णनात्, 'जिताचेलपरीषहो मुनि' रिति वचनतो वा ?, न तावदाद्यो विकल्प:, सूत्रे हि तीर्थकृतामचीवरत्वं कदाचित्सर्वदा वा ?, कदाचिच्चेत्को वा किमाह ?, कदाचिदस्माकमप्यस्याभिमतत्वात्, अथ सर्वदा, तन्न, 'सव्वेऽपि एवगदूसेन निग्गया जिनवरा उचउवीस' मिति वचनात्, अथ तत्र 'एगदोसेणं' तिपाठः, सर्वेऽपि संसारदोषेण एकेन निर्गता इतिकृत्वा, नन्वेवमनवस्था, सर्वत्र सर्वैरपि स्वेच्छारचितपाठानां सुकरत्वात्, किं च-तीर्थकृतामचीवरत्वे तेषामेव तद्धर्मोपकारीति निश्चयोऽस्तु, नापरेषां न हि यदेव तेषां धर्मोपकारी तदेवेतरेषामपि, अन्यथा यथा न ते परोपदेशतः प्रवर्त्तन्ते यथा च छद्मस्थावस्थायां परोपदेशं दीक्षां वा न प्रयच्छन्ति, तथाऽन्यैरपि विधेयमिति मूलच्छेद एव तीर्थस्य्, उक्तं च " न परोवएसविसया न य छउमत्था परोवएसंपि । देति न य सिस्सवग्गं दिक्खति जिना जहा सव्वे ॥ १ ॥ तह सेसेहि य सव्वं कज्जं जड़ तेहि सव्वसाहम्मं । एवं च कओ तित्थं ? न चेदचेलत्ति कोगाहो ? ॥२॥" अथ जिनकल्पाकर्णनात्, तत्र हि न किञ्चिदुपकरणमिति चीवरस्याप्यभाव:, तथा च न तस्य धर्मोपकारिता, ननु जिनकल्पिकानामुपकरणाभावः, प्रवादतः आगमतो वा ?, न तावदाद्यपक्षो, न हि वसति किलात्र वटवृक्षे रक्ष इत्यादिनिर्मूलप्रवादानां प्रमाणता, नाप्यागमतः, , तेषामपि तत्र शक्त्यपेक्षयोपकरणप्रतिपादनात्, तदुक्तम् "जिनकप्पियादओ पुण सोवहओ सव्वकालमेगंतो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy