________________
अध्ययनं-२,[ नि. ७७] 'शेषाः' एतदुद्धरिताः, परीयहा: पुन: एकादश वेदनीय' वेदनीयनाम्नि कर्मणि संभवन्तीत्ति गाथात्रयार्थः ।। के पुनस्ते एकादशेत्याहनि.[७८] पंचेव आनुपुची चरिया सिज्जा वहे व(य) रोगे य।
तणफासजल्लमेव य इक्कारस वेयणीज्जंमि ।। वृ. 'पञ्चैव' पञ्चसंख्या एव, ते च प्रकारान्तरेणापि स्युरित्याह-'आनुपूर्त्या' परिपाट्य, क्षुत्पिपासाशीतोष्णदंशमशकाख्या इति भावः, चर्या शय्या वधश्च रोगश्च तृणस्पर्शे जल्ल एव च इत्यमी एकादश वेदनीयकर्मण्युदयवति परीषहा भवन्तीति शेष इति गाथार्थः !!
सम्प्रति पुरुषसमवतारमाहनि.[७९] बावीसं बायरसंपराए चउदस य सुहुमरागंमि।
छउमत्थवीयराए चउदस इक्कारस जिनंमि । वृ. 'द्वाविंशतिः' द्वाविंशतिसंङ्ख्याः प्रक्रमात्परीषहाः 'बादरसंपराये' बादरसम्परायनाम्नि गुणस्थाने, किमुक्तं भवति?, बादरसम्परायं यावत्सर्वेऽपि परीषहाः सम्वन्ति, 'चतुर्दश' चतुदशसङ्ख्याः , चः पूरणे, 'सूक्ष्मसंपराये' सूक्ष्मसम्परायनाम्नि गुणस्थाने, 'सप्तानां' चारित्रमोहनीयप्रतिबद्धानां दर्शनमोहनीयप्रतिबद्धस्य चैकस्य तत्रासम्भवादिति भावः, 'छद्मस्थवीतरागे' छद्मस्थवीतरागनाम्नि गुणस्थाने, 'चतुर्दश' उक्तरूपा एव, एकादश' एकादशसङ्ख्याः 'जिने' केवलिनि, वेदनीयप्रतिबद्धानां क्षुदादीनामेव तत्र भावादिति गाथार्थः ११ नि.[८०] एसणमनेसणीजं तिण्हं अग्गहणऽभोयण नयाणं।
अहिआसण बोद्धव्वा फासुय सहुज्जुसुत्ताणं ॥ वृ. एष्यत इत्येषणम्-एषणाशुद्धं, अनेषणीयं-तद्विपरीतं, सोपस्कारत्वाद्यदन्नादि तस्य, यद्वा 'सुपां संपो भवन्ती'ति न्यायादेषणीयस्य अनेषणीयस्य च, अग्गहणऽभोयण'त्ति अग्रहणम्-अनुपादानं, कथञ्चिद्ग्रहणे वा अभोजनम्-अपरिभोगात्मकं त्रयाणाम्' अर्थान्नैगमसंग्रहव्यवहाराणां नयानां मतेनाध्यासना बोद्धव्येति सम्बन्धः, अभीहि स्थूलदर्शिनः बुभुक्षादिसहनमन्नादिपरिहारात्मकमेवेच्छन्ति, 'फासुग सद्गुज्जुसुत्ताणं'ति शब्दनयानां त्रयाणामृजुसूत्रस्य च मतेन प्रासुकमन्त्रादि उपलक्षणत्वात् कल्प्यं च गृह्णतो भुञ्जानस्याप्यध्यासनेति प्रक्रमः; ते हि भावप्रधानतया भावाध्यासनामेव मन्यन्ते, सा च नाभुञ्जानस्यैव, किन्तु शास्त्रानुसारिप्रवृत्त्या समतावस्थितस्य प्रासुकमेषणीयं च धर्माधूर्वहनार्थं भुञ्जनस्यापीति गाथार्थः। सम्प्रति नयद्वारमाहनि.[८१] जं पप्पं नेगमनओ परीसहो वेयणा य दुण्हं तं ।
वेयण पडुच्च जीवे उज्जुसुओ सद्दस्स पुण आया। वृ.'यद्'वस्तुगिरिनिर्झरजलादि प्राप्य आसाद्य क्षुदादिपरीषहा उत्पद्यन्ते नैगमो-नैगमनयो यत्तदोनित्याभिसम्बन्धात् तत्परीषह इति वक्तीति शेषः, स ह्येवं मन्यते-यदि तत् क्षुदाधुत्पादकं वस्तु न भवेत्तदा क्षुदादय एव न स्युः, तदभावाश्च किं केन सह्यत इति परीषहाभाव एव स्यात्, ततस्तद्भावभावित्यात् परीषहस्य तत् प्रधानमिति तदेव परीषहः, प्रस्थकोत्पादककाष्ठप्रस्थकवत, आह-नैकगमत्वान्नैगमस्य कथमेकरूपतैव परीषहाणामिहोक्ता?, उच्यते, शतशाखत्वादस्य न सर्वभेदाभिधानं शक्यमिति कश्चिदेव क्वचिदुच्यते, एवं शेषनेष्वपि यथोक्ताशङ्कायां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org