________________
उत्तराध्ययन- मूलसूत्रम् - १-२ / ४८ तद्विपरीतं तु अजीवद्रव्यं दण्डादीत्यकारणं, जीवद्रव्यमिति तु द्रव्यग्रहणं पर्यायनयस्यापि गुणसंहतिरूपस्य द्रव्यस्येष्टत्वात्, तदुक्तम्- “पर्यायनयोऽपि द्रव्यमिच्छति गुणसन्तानरूप"मिति गाथार्थः ॥ सम्प्रति समवतारद्वारमाह
नि. [ ७२]
७०
समोयारो खलु दुविहो पयडिपुरिसेसु चेव नायव्वो । एएसि नाणत्तं वृच्छामि अहानुपुब्बीए ॥
वृ. 'समवतारः खलु द्विविध:' इति खलुशब्दस्यैवकारार्थत्वात् द्विविध एव, द्वैविध्यं च विषयभेदत इति तमाह--प्रकृतयश्च पुरुषाश्च प्रकृतिपुरुषास्तेषु, कोऽर्थः ? - प्रकृतिषु ज्ञानावरणादिरूपासु पुरुषेषु चशब्दात् स्त्रीपण्डकेषु च तत्तद्गुणस्थानविशेषवर्तिषु 'एवे 'ति पूरणे, ‘ज्ञातव्यः' अवबोद्धव्यः, 'एतेषां' प्रकृत्यादीनां 'नानात्वं' भेदं वक्ष्ये 'अथ' अनन्तरम् 'आनुपूर्व्या' क्रमेणेति गाथार्थ: ।। तत्र प्रकृतिनानात्वमाह
नि. [ ७३]
नाणावरणे वेए मोहंमिय अंतराइए चेव ।
एएसुं बावीसं परीसहा हुंति नायव्वा ॥
वृ. ज्ञानावरणे वेद्ये मोहे चान्तरायिके चैव एतेषु चर्तुर्षु कर्मसु वक्ष्यमाणस्वरूपेषु द्वाविंशतिः परीषा भवन्ति । अनेन प्रकृतिभेद उक्तः, सम्प्रति यस्य यत्रावतारस्तमाहपन्नान्नाणपरिसहा नाणावरणंमि हुति दुन्नेए ।
नि. [ ७४]
इक्को य अंतराए अलाहपरीसहो होइ ॥
वृ. प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकवैक्लव्याकरणतः परीषह्यमाणे परीषहौ, 'ज्ञानावरणे' कर्मणि भवतो 'द्वौ' एतौ, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च 'अन्तराये' अन्तरायकर्मण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थः ।
नि. [ ७५ ]
मोहनीयं द्विधेति यत्र तभेदे वेदनीये च यत्परिषहावतारस्तमाहअरई अचेल इत्थी निसीहिया जायगा य अक्कोसे। सक्कारपुरक्कारे चरित्तमोहंमि सत्तेए ॥
नि. [ ७६ ]
नि. [ ७७]
अरईइ दुगंछाए पुंवेय भयस्स चेव मानस्स । कोहस् य लोहस्स य उदएण परीसहा सत्त । दंसणमोहे दंसणपरीसहो नियमसो भवे इक्को । सेसा परीसहा खलु इक्कारस वेयणीज्जमि ॥ वृ. 'अरति:' इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः, 'अचेल 'त्ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, 'स्त्री नैषेधिकी याचना चाक्रोशः सत्कारपुरस्कारः' सप्तैते वक्ष्यमाणरूपाः परीषहाः, 'चरित्रमोहे' चरित्रमोहनाम्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्यादेषां ॥ चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेदस्योदयेन यत्परीषहसद्भावस्तमाह-‘अरतेः' अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, 'पुंवेय'त्ति सुपोलोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त, इह चारत्युदयेनारतिपरीषहः जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रमं योजना कार्येति, तथा दर्शनमोहे ‘दर्शनपरीषहः' वक्ष्यमाणरूपो, 'नियमसो'त्ति आर्षत्वेन नियमात् भवेद् 'एकः ' अद्वितीयः,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International