________________
उत्तराध्ययन-मूलसूत्रम्-१-१/१ प्रमाणत्वमभिधाय तदभिधानस्यानर्थकत्वमिह कैश्चिदुक्तं, तदसाधु, शब्दस्याप्रमाणत्वे तत्प्रामाण्यमूलत्वेन सकल-व्यवहाराणामुच्छेदप्रसङ्गात्, उक्तं हि
"लोकिकव्यवहारोऽपि, यस्मिन्न व्यवतिष्ठते।
तत्र साधुत्वविज्ञानं, व्यामोहोपनिबन्धनम्।।" इति तथा च शास्त्रादौ फलादिप्रतिपादिका पूर्वाचार्यगाथा
"तस्स फलजोगमंगलसमुदायत्था तहेव दाराहं।
तब्भेयविरुत्तिक्कमपयोयणाई च वच्चाई।" फलाभिलाषिणां च सकलप्रेक्षावतां प्रवृत्तिरिति प्रथमतः फलस्याभिधानं, तत्रापि किमिदं सम्बद्धमुतासम्बद्धमिति विचारत एव विपश्चितः प्रवर्तन्त इति तदनु योगस्य, इत्यादि क्रमप्रयोजनं सर्वत्र योज्यं, तत्र फलं कर्तुः श्रोतुश्चाव्यवहितं विनेयानुग्रहो यथावदर्थावबोधश्च, व्यवहितं पुनरुभयोरपि तदुत्तरोत्तरगुणप्रकर्षप्राप्त्याऽपवर्गावाप्तिरिति । योगः सम्बन्धः, स च हेतुतः फलतश्च, तत्र हेतुत उत्तराध्ययनानुयोगस्य साक्षात्कृतधर्माणः सूत्रकृत एव यथास्वं प्रणेतारः ततस्तदवबोधिततदर्थास्तच्छिष्याः ततोऽपि तद्विनेयास्तावद् यावद् भगवान् भद्रबाहुः ततो भाष्यकृतस्ततचूर्णिकृतः ततोऽपि वृत्तिकृतो यावदस्मद्गुरव इति गुरुपर्वक्रमलक्षणः। फलतस्तूपायोपेयभावरूप: अभिहितफलस्योपेयत्वात् प्रस्तुतानुयोगस्य च तदुपायत्वादिति । मनातिविनाशयति शास्त्रपारगमनविघ्नान् गमयति-प्रापयति शास्त्रस्थैर्य लालयति चश्लेषयति तदेव शिष्यप्रशिष्यपरम्परायामिति मङ्गलं, यद्वा मन्यन्ते अनापायसिद्धिं गायन्ति प्रबन्धप्रतिष्ठिति लान्ति वाऽव्यवच्छिनासन्तानाः शिष्यप्रशिष्यादयः शास्त्रमस्तिन्निति मङ्गलम्, आदिमध्यावसानवर्तिनस्तस्योक्तरूपार्थप्रसाधकत्वेन प्रसिद्धत्वात्, उक्तं हि
"तं मंगलमाईए मज्झे पज्जंतए य सत्थस्स । पढमं सत्थस्साविग्धपारगमनाय निद्दिष्टुं ॥१॥ तस्सेव उ थिज्जत्थं मज्झिमयं अंतिमं च तस्सेव ।
अव्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ।।२।।" तच्च नामादिचतुर्भेद, तत्र मङ्गलमिति नामैव नाममङ्गलं, स्थापनामङ्गल मङ्गलकार: मङ्गलानि च दर्पणादीनि, यथोक्तम्
"दप्पणभद्दासण वद्धमाण वरकलसमच्छसिरिवच्छा!
सोच्छिय नंदावत्ता लिहिया अट्ठट्ठ मंगलगा।" इति द्रव्यभावमङ्गले त्वावश्यकभाष्यानुसारतोऽवबोद्धव्ये । तत्र चेह भावमङ्गलेनाधिकारः, तच्च कृतमेव, नन्दिरूयत्वात् तस्य, नन्दिव्याख्यानपूर्वकत्वाच्च सकलानुयोगस्य, अपवादत उत्क्रमेणापि यदाऽनुयोगस्तदा भावत आदिमङ्गलं 'संजोगा विप्पमुक्कस्सअनगारस्स'त्ति अनगारग्रहणं, मध्यमङ्गलं, कपिल्ले नयरे राया' इत्यादिनाऽनगारगुणवर्णनम्, अन्त्यमङ्गलम् ‘इइ पाउकरे बुद्धे' इत्यादिना बुद्धाद्यभिधानं । समुदायो-वर्णपदवाक्यश्लोकाध्ययनकदम्बकात्मक श्रुतस्कन्धरूपतस्याभिधेयोऽर्थः समुदायार्थः, स चेह धर्मकथात्मकः, विशेषतस्त्वेनं 'पढमे विनओ' इत्यादिना नियुक्तिकार एव वक्ष्यति। द्वाराणीति प्रक्रमादनुयोगद्वाराणि, तत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org