________________
उत्तराध्ययन-मूलसूत्रम्-१-१/४८ एवं क्रियामपि विना नासौं भवतीति तदविनाभावित्वमपि समानमेवेति कथं नोभयनिबन्धनत्वसिद्धिः?, तथा चाह
"नाणं सविसयनिययं न नाणमितेण कज्जनिष्फत्ती। ____ मग्गन्नू दिटुंतो होइ सचिट्ठो अचिट्ठी य।।" जाणंतोऽवि य तरिउं काइयजोगं न जुंजइ जो उ।
सो बुज्झइ सोएणं एवं नाणी चरणहीनो।।" नच मरुदेव्यादीनामपि सर्वसंवररूपा क्रिया नास्ति, एवं क्रियावादिनाऽपि-'यद् यत्समनन्तरभावितत् तत्कारणं, यथा पृथिव्यादिसामग्रयनन्तरजन्मा तत्कारणोऽकुरः, तथा च क्रियानन्तरभाविनी मुक्तिरिति यो हेतुरुपन्यस्तः सोऽप्यनेकान्तिकः, यतः स एवं वाच्यः- यदा शैलेश्यवस्थायां सर्वसंवररूपा क्रिया यदनन्तरं मुक्त्यवाप्तिस्तदा ज्ञानमस्ति वा न वेति ?, नास्ति चेच्छैलेश्यवस्थाऽपि कथम्, न हीयं केवलज्ञानं विनाऽवाप्यते, अथास्त्येव तदा सकलभावस्वभावावभासि केवलज्ञानम्, एवं च सति कथमुभयाविनाभावित्वेऽपि नोभयफलत्वं मुक्तेः, उक्तं च-"सहचारित्तेऽवि कहं कारणमेगं न उण एगं" आह-एवं ज्ञानक्रिययोः प्रत्येकं मुक्तेरवापिका शक्तिरसती कथं समुदायेऽपि भवति ?, न हि यद् येषु प्रत्येकं नास्ति तत्तेषां समुदायेऽपि भवति, तथा प्रत्येकमसत् समुदितास्वपि सिकतासु तैलं, प्रत्येकमसती च ज्ञानक्रिययोः मुक्तेरवापिका शक्तिः, तदुक्तम्
'पत्तेयमभावाओ निव्वाणं समुदियासुविन सुत्तं ।
नानकिरियासु वुत्तुं सिकयासमुदाय तिल्लं व ॥" उच्यते, स्यादेवं यदि सर्वथा प्रत्येकं तयोर्मुक्त्यनुपकारितोच्येत, यदा तु तयोः प्रत्येक देशोपकारिता समुदाये तु सम्पूर्णहेतुतोच्यते तदा न कश्चिदोषः, आह च
"वीसु न सव्वहु च्चिय सिकयातिल्लं व साहणाभावो।
देसोवकारिया जा सा समवायमि संपुण्णा ।।" अतः स्थितमेतत्-ज्ञानक्रिये समुदिते एव मुक्तिकारणु न तु प्रत्येकमिति तत्त्वं, तथा च पूज्या:
"नाणाहीनं सव्वं नाणनओ भणति किं च किरियाए ? | किरियाए चरणनओ तदुभयगाहो य सम्मत्तं ॥" क्वचित् सौत्र्या शैल्या क्वचिदधिकृतप्राकृतभुवा क्वचिच्चार्थापत्त्या क्वचिदपि समारोपविधिना। क्वचिच्चाध्याहारात् क्वचिदविकलप्रक्रमबलादियं व्याख्या ज्ञेया क्वचिदपि तथाऽऽम्नायवशतः ॥१॥
अध्ययनं १ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे प्रथम अध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्ति एवं शान्त्याचार्यविरचिता टीका परिसमाप्ता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org