________________
६५
अध्ययनं-१,[नि. ६४] विशुद्धानामेवेत्यपिशब्दार्थः, 'नयानाम्' उक्तरूपाणां बहवो विधा:-प्रकारा यस्यां सा बहुविधा तां, 'वक्तव्यता' सामान्यमेव विशेषा एव उभयनिरपेक्षं चो(वो) भयं, यदिवा द्रव्यं पर्यायाः प्रकृतिः पुरुषो विज्ञानं शून्यमित्यादिस्वस्वाभिप्रायानुरूपार्थप्रतिपादनपरां निशम्य-आकर्ण्य, किमित्याह-'तदिति वक्ष्यमाणं सर्वे निरवशेषास्ते च ते नयाश्च सर्वनयास्तेषां, विशुद्ध-निर्दोषतया सम्मतं, यत् किमित्याह-चर्यत इति चरणं-चारित्रं, गुणः साधनमुपकारकमित्यनर्थान्तरं, ततश्चरणं चासौ गुणश्च निर्वाणात्यन्तोपकारितया चरणगुणस्तस्मिन् स्थित:-तदासेवितया निविष्टः, 'साधु'रिति साधयति पौरुषेयीभिः क्रियाभिरपवर्गमित्यन्वर्थनामतयोच्य ते, अस्यायमाशयःबहुविधायामपि वक्तव्यतायां क्रियात एव फलप्राप्तिः, तथाहि-तृप्त्यर्थी जल्लादिकमवलोकयनपि न यावत् पानादिक्रियायां प्रवृत्तस्तावत्तृप्तिलक्षणफलमवाप्नोति, अत एव सम्यग्ज्ञानमपि तदुपयोगितयैव विचार्यते, तथा च तद्विचारप्रवृत्तैरुक्तम्-“न ह्याभ्यामर्थं परिच्छिद्य प्रवर्तमानोऽर्थक्रियानां विसंवाद्यत" इति, आगमोऽप्येवमेवावस्थितः, यतस्तत्रापिक्रियाविकलं विफलमेव ज्ञानम्, उक्तं हि
"जहा खरो चंदनभारवाही, भारस्स भागी न हु चंदनस्स!
एवं खु नाणी चरणेन हीनो, नाणस्स भागी न हु सुग्गई॥" यदि च ज्ञानमेव मुक्तिसाधनं ज्ञानाविनाभाव्यनुत्तरदर्शनसम्पत्समन्वितानां दशार्हसिंहादीनामपी स्यात्, अथ चाधोगतिगामिन एवैते श्रूयन्ते, यत आह
"दसारसीहस्स य सेणियस्स, पेढालपुत्तस्स य सच्चइस्स।
अनुत्तरा दंसणसंपया तया, विना चरित्तेणऽहरं गई गया।" किञ्च-यदि ज्ञानमेव मुक्तिकारणमिष्यते, तदा यदुच्यते, 'विहरति मुहूर्तकालं, देशोनां पूर्वकोटिच' इत्येतदपि विरुध्येत, ज्ञानेषु निखिलवस्तुविस्तरपरिच्छेदकरूपतां बिभ्रत केवलज्ञानमेवोत्तममिति तत्समनन्तरमेव मुक्त्यवाप्तौ कथं विहरणसम्भवः ?, अतः सत्यपि ज्ञाने शैलेश्यवस्थाऽवाप्तौ सर्वसंवररूपक्रियाऽनन्तरमेव मुक्त्यवाप्तिरिति क्रियाया एव मुक्तिकारणत्वं, प्रयोगश्चात्र-यद्यत्समनन्तरभावितत् तत्कारणं, यथा पृथिव्यादिसामग्यनन्तरभावी पृथिव्यादिकारणोऽकुर:, क्रियाऽनन्तरभाविनी च मुक्तिरिति, अयं च पञ्चविधेऽपि विनये चारित्रतपउपचारविनयानेवेच्छति, ज्ञानदर्शानविनयौ तु तत्कारणत्वाद् गुणभूतावेवेति।। - आह-एवं सति किं ज्ञान तत्त्वमस्तु, आहोस्वित् क्रिया?, उच्यते, परस्परव्यपेक्षमुभयमिदं मुक्तिकारणं, निरपेक्षतं न कारणमिति तत्त्वम्, एतदर्थाभिधायिका चेयमेव गाथा 'सव्वेसिपि नयाणं' इत्यादि, इह च गुणशब्देन ज्ञानमुच्यते, 'बहुविधवक्तव्यात्म्' उक्तरूपां नामादीनां क: कं साधुमिच्छतीत्येवंरूपां वा, निशम्य-श्रुत्वा 'तत् सर्वनयविशुद्धं तत् सर्वनयसम्मतं यच्चरणगुणस्थितः, साधुरिति, अयमभिप्रायः-यत्तावद् ज्ञानवादिनोक्तम्-यद् येन विना न भवति ततत्रिबन्धनमेव, यथा बीजाधाविनाभावि तन्निबन्धन एवांकुरः, ज्ञानाविनाभाविनीच मुक्तिरिति, अत्राविनाभावित्यमनेकान्तितको हेतुः, तथाहि-यथाऽनेन ज्ञाननिबन्धनत्वं मुक्तेः साध्यते, तथा क्रियानिबन्धनत्वमपि, यथा हि ज्ञानं विना नास्ति मुक्तिरिति ज्ञानविनाभाविनी 28/5
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org