________________
अध्ययनं-३६,[ नि. ५५९]
२८९ मासद्धमासिएणं तु, आहारेणं तवं चरे।। वृ. बारसेत्यादि मूत्रपञ्चकम् । द्वादशैव न तु न्यूनान्यधिकानि वा 'तुः' पूरणे 'वर्षाणि' संवत्सरान् संलेखनं द्रव्यत: शरीरस्य भावतः कपायाणां कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः, 'उक्कोसिय'त्ति उत्कृष्टा सर्वगुर्वी भवेत्, 'संवच्छरं'ति संवत्सरं-वर्ष मध्यमैव मध्यमिका, षण्मासान् ‘च:' पुनर्थे भिन्नक्रमस्ततो जघन्यैव जघन्यिका पुनः, पठन्ति च'उक्कोसिया' इत्यत्र 'उक्कोसतो'त्ति, अन्यत्र तु 'मज्झिमउत्ति जहन्नतो'ति।। ___इत्थं संलेखनायास्त्रैविध्ये उत्कृष्टाया: क्रमयोगमाह-'प्रथमे' आद्ये 'वर्षचतुष्के' संवत्सरचतुष्टये वर्तनं वृत्तिनियूहनमनु (णं तत्) कुर्यात्, पठ्यते च- 'विगईनिज्जूहणं करे'ति स्पष्टम् इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत्___ 'अन्ने चत्तारिवरिसे विचित्तं तवं काउंआयंबिलेण पारेइ निव्विएण वा पारेइ"त्ति, केवलमनेन नियुक्तिकता च द्वितीये वर्षचतुष्टये एतदुक्तम्, अत्र च सूत्रे प्रथमे दृश्यत इत्युभयथापि करणे दोषाभावमनुमीमहे, तयोरस्य च प्रमाणभूतत्वात्, द्वितीये वर्षचतुष्के 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठाष्टमादिरूपं तपश्चरेत्, अत्र च पारणके सम्प्रदाय:-"उग्गमविसुद्धं सव्वं कप्पणिज्जं पारेति"त्ति।
एकेन-चतुर्थलक्षणेन तपसाऽन्तरं-व्यवधानं यस्मिस्तदेकान्तरम् 'आयामम्' आचाम्लं 'कट्ट'त्ति कृत्वा संवत्सरौ द्वौ, 'ततः' तदनन्तरं 'संवत्सरार्द्ध' मासषट्कं 'तुः' पूरणे 'न' नैव 'अतिविकृष्टम्' अष्टमद्वादशादि तपः 'चरेत्' आसेवेत् ।
ततः 'संवत्सरार्द्ध पुनः षण्मासलक्षणं 'विकृष्टम्' उक्तरूपं 'तुः' एवकारार्थो विकष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-'परिमियं चेव'त्ति, 'चः' पूरणे तत: परिमितमेव, द्वादशे हि वर्षे कोटीसहितमायामम्, इह तु चतुर्थादिपारणक एवेत्येवमुक्तम्, आयाम-आचाम्लं तस्मिन्ननन्तरं द्विधा विभज्योपदर्शिते संवत्सरे कुर्यात्, पठन्ति च
"परिमियं चेव आयाम, गुणुक्कस्सं मुनीचरे।
___ तत्तो संवच्छरद्धऽन्नं, विगिटुं तु तवं चरे।" इत्थमेकादशसु वर्षेष्वतिक्रान्तेषु द्वादशे वर्षे किमसौ विदध्यात् ? इत्याह-कौट्यौ-अग्रे प्रत्याख्यानाद्यन्तकोणरूपे सहिते-मलिते यस्मिस्तत्कोटीसहितं, किमुक्तं भवति?-विवक्षितदिने प्रातराचाम्लं प्रत्याख्याय तच्चाहोरात्रं प्रतिपाल्यं, पुनर्द्वितीयेऽह्रिआचाम्लमेव प्रत्याचष्टे, ततो द्वितीयस्यारम्भकोटिराद्यस्य तु पर्यन्तकोटिरुभे अपि मिलिते भवत इति तत्कोटीसहितमुच्यते, अन्ये त्वाहुः-आचाम्लमेकस्मिन् दिने कृत्वा द्वितीयदिने च तपोऽन्तरमनष्ठाय पुनस्तृतीयदिन आचाम्लमेव कुर्वत: कोटीसहितमुच्यते, उभयार्थसंवादिनी चेयं गाथा
"पट्ठवणओ य दिवसो पच्चक्खाणस्स निट्ठवणओ य।
... जहियं समिति दुन्नि उतं भन्नइ कोडिसहियं तु ॥" इत्थमुक्तरूपंकोटीसहितमाचामाम्लं कृत्वा 'संवत्सरे' वर्षे प्रक्रमाद्वादशे 'मुनिः' साधुः 'मास'त्ति सूत्रत्वान्मासं भूतो मासिकस्तेनैवमार्द्धमासिकेन आहारेण'न्ति, उपलक्षणत्वादाहार(29/19
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org