________________
२८८
उत्तराध्ययन-मृलसूत्रम्-२-३६/१७१० निगमयितुमाह. मू.(१७११) संसारत्था य सिद्धा य, इइ जीवा वियाहिया।
रूविणो चेवावी य, अजीवा दुविहाविय।। वृ.संसारस्थाश्च सिद्धाश्च 'इति' इत्येवंप्रकारा जीवाः 'व्याख्याताः' विशेषेण-सकलभेदाभिव्याप्त्या प्रकथिताः, रूपिणश्चैव 'रूवी य'त्ति अकारप्रश्लेषादरूपिणश्चाजीवा द्विविधा अपि व्याख्याता इति योग इति सूत्रार्थः ।। यदुक्तं 'जीवाजीवविभक्ति शृणुतैकमनस' इति तत्र जीवाजीवविभक्तिमभिधाय शृणुतैकमनस' इति वचनात् क्वचि(कश्चित् श्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येतातस्तदाशङ्कापनोदार्थमाहमू.(१७१२) इइ जीवमजीवे य, सुच्चा सद्दहिऊण य।
सव्वनयाण अनुमए, रमिज्जा संजमे मुनी।। वृ. इति' इत्येवंप्रकारान् ‘जीवमजीवेय'त्ति जीवाजीवान् ‘एतान्' अनन्तरोक्तान् श्रुत्वा' अवधार्य श्रद्धाय च' तथेति प्रतिपद्य सर्वे च ते नयाश्च सर्वनया-ज्ञानक्रियानयान्तर्गता नैगमादयस्तेपामनुमत:-अभिप्रेतस्तस्मिन्, कोऽर्थः? ज्ञानसहितसम्यक्चारित्ररूपे 'रमेत' रतिं कुर्यात, क्व?-सम्यग्यमन-पृथिव्यादिजीवोपमर्दतस्तृणपञ्चकाद्यजीवोपादानादेश्चोपरमणं संयमस्तस्मिन् 'मुनिः' उक्तरूप इति सूत्रार्थः । संयमरतिकरणानन्तरं यद्विधेयं तदाहमू.(१७१३) तओ बहूनि वासाणि, सामन्त्रमनुपालिया।
इमेण कमजोगेणं, अप्पाणं संलिहे मुनी।। वृ. 'ततः' तदनन्तरं 'बहूनि' अनेकानि वर्षाणि 'श्रामण्यं' श्रमणभावम् 'अनुपाल्य' आसेव्य 'अनेन' अनन्तरमेव वक्ष्यमाणेन क्रमः- परिपाटी तेन योग:-तपोऽनुष्ठानरूपोव्यापारः क्रमयोगस्तेनात्मानं 'संलिखेत्' द्रव्यतो भावतश्च कृशीकुर्यान्मुनिः, इह च बहूनि वर्षाणि श्रामण्यमनुपाल्येत्यभिदधता न प्रव्रज्याप्रतिपत्त्यनन्तरमेवैतद्विधिरित्युपदर्शितम्, उक्तं हि
___ "परिपालितो य दीहो परियाओ वायणा तहा दिना।
निप्फाइया य सीसा सेयं मे अप्पणो काउं॥" इति सूत्रार्थः ।। सम्प्रति यदुक्तम् - 'अनेन क्रमयोगेन संलिखेदि'ति, तत्र कोऽसौ क्रमयोग? इति प्रश्नसम्भवे संलेखगाभेदाभिधानपूर्वकं तमाहमू.(१७१४) बारसेव उ वासाई, संलेहुक्कोसिया भवे।
संवच्छरं मज्झिमिया, छम्मासा य जहनिया। मू. (१७१५) पढमे वासचउक्क मि विगई(वित्ति) निज्जूहणं करे।
बिइए वासचउक्कमि, विचित्तं तु तवं चरे।। मू.(१७१६) ___ अगंतरमायाम, कट्ट संवच्छरे दुवे।
तओ संवच्छरद्धं तु, नाइविगिटुंतवं चरे।। मू.(१७१७) तओ संवच्छरद्धं तु, विगिटुं तु तवं चरे।
परिमियं चेव आयाम, तमि संवच्छरे करे।। मू. (१७१८) कोडीसहियमायाम, कट्ट संवच्छरे मुनी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org