________________
· अध्ययन-३६,[ नि. ५५९ ]
२८५ कल्प्यन्ते इन्द्रसामानिकत्रायस्त्रिंशादिदशप्रकारत्वेन देवा एतेष्विति कल्पा देवलोकास्ता - नुपगच्छन्ति-उत्पत्तिविषयतया प्राप्नुवन्तीति कल्पोषगाः, कल्पान्-उक्तरूपानतीता:तदुपरिवत्तिस्थानोत्पन्नतया निष्क्रान्ताः कल्पातीताः । सोहम्मीसाणग'त्ति सुधर्मा नाम शक्रस्य सभा(सा)ऽस्मिन्नस्तीति सौधर्म: कल्पः स एपामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथेशानो नाम द्वितीयदेवलोकस्तन्निवासिनो देवा अपि ईशानास्त एवेशानका: एवमुत्तरत्रापि व्युत्पत्तिः कार्याः ।
ग्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जूपरिवर्ती प्रदेशस्तस्मिन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता ग्रैवेया-देवावासास्तन्निवासिनो देवा अपि ग्रैवेयाः, न विद्यन्ते उत्तराः-प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः, 'हेट्ठिम'त्ति अधस्तना उपरितनपक्टापेक्षया प्रथमास्त्रयस्तेष्वपि 'हेट्ठिम'त्ति अधस्तनाः अधस्तनाधस्तनाः-प्रथमत्रिकाधोवर्तिनः, ‘हेट्ठिमा मज्झिमा तह'त्ति अधस्तनमध्यमाः' प्रथमत्रिकमध्यवर्तिनः, “हिट्टिमा उवरिमा चेव'त्ति अधस्तनोपरितना:' प्रथमत्रिकोपरिवर्तिनः, मध्ये भवा मध्यमा-मध्यमत्रिकवत्तिनस्तेष्वप्यधस्तना मध्यमाधस्तनाः, एवं मध्यममध्यमामध्यमोपरितनाः, उपरितनाउपरिवत्तिनस्तेष्वप्यधस्तना उपरितनाधस्तनाः, एवमुपरितनमध्यमाउपरितनोपरितनाः, इति' भेदसमाप्तौ, तत एतावद्भेदा एव ग्रैवेयकाः सुराः, अभ्युदयविघ्नहेतून् विजयन्त इति विजयास्तथैव वैजयन्ताः, 'उणादयो बहुल'मिति बहुलवचनात् घञ्प्रत्यये उपसर्गेकारस्यैकारः, एवं जयन्ताः परैः-अन्यैरभ्युदयविघ्नहेभिरजिता-अनभिभूताः अपराजिताः, सर्वेऽर्थाः सिद्धा इव सिद्धा येषां ते सर्वार्थसिद्धाः, ते हि विजितप्रायकर्माणः, उपस्थितभद्रा एव तत्रोत्पत्तिभाजः, इतीत्यादि निगमनम्,
अत्र च वैमानिका इति वैमानिकभेदाः, सामान्यविशेषयोः कथञ्चिदनन्यत्वाद्, एवमादय इत्यादिशब्दस्य प्रकारवचनत्वादेवंप्रकारा इत्येकादशसूत्रार्थः॥ मू.(१६८०) लोगस्स एगदेसंमि, ते सव्वे परिकित्तया।
इत्तो कालविभागं तु, तेसि वुच्छ चउब्विहं।। मू.(१६८१) संतई पप्पाणाईया, अपज्जवसियावि य।
ठिइं पडुच्च साईया, सपज्जवसियाविय।। मू.(१६८२) साहीयं सागरं इक्कं, उक्कोसेन ठिई भवे।
भोमिज्जाण जहनेणं, दसवाससहस्सिया। मू.(१६८३) पलिओवममेगंत, उक्कोसेन वियाहियं ।
वंतराणं जहनेणं, दसवाससहस्सिया।। मू. (१६८४) पलिओवममेगं तु, वासलक्खेण साहियं ।
पलिओवमट्ठभागो, जोइसेस जहनिया। मू.(१६८५) दो चेव सागराई, उक्कोसेनं वियाहिया।
सोहम्मंमि जहन्त्रेणं, एगं च पलिओवमं । मू.(१६८६) सागरा साहिया दुन्नि, उक्कोसेन वियाहिया।
ईसानंमि जहन्नेणं, साहियं पलिओवमं॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org