________________
अध्ययनं - ३४, [ नि. ५४९ ]
२३९
लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कतराऽसौ ? इत्याह- 'यस्मिन् ' इति पृथिवीकायादौ संमूर्छिममनुष्यादौ च याः कृष्णाद्याः 'तुः' पूरणे तिरश्चां मनुष्याणां मध्ये संभवन्ति तासाम्, एता हि क्वचित्काश्चित्संभवन्ति, यत आगमः --
"पुढविकाइयाणं भंते! कइलेसातो पन्त्रत्ताओ ?, गोयमा ! चत्तारि लेसाओ, तंजहा - कण्हलेसा जाव तेउलेसा, आउवणप्फइखाइयाणवि एवं चेव, तेउवाउबेइंदियतेइंदियत्तउरिंदियाण जहा नेरइयाणं पंचेंदियतिरिक्खजोणियाणं पुच्छा, गोयमा ! छलेसाओ कण्हा जाव सुक्कलेसा, मानुस्साणं पुच्छा, गोयमा ! छ एयाओ चेव, संमुच्छिममणुस्साणं पुच्छा, गोयमा ! जहा नेरइयाणं ॥ नन्वेवं शुक्ललेश्याया अप्यन्तुर्मुहूर्तमेव स्थितिः प्रातेत्याशङ्क्याह-वर्जयित्वा केवलां शुद्धां लेश्यां शुक्ललेश्यामितियावत् ।
अस्याश्च यावती स्थितिस्तामाह- 'मुहुत्तद्धं तु 'त्ति प्राग्वदन्तर्मुहूर्तमेव जघन्या उत्कृष्टा भवति पूर्वकोटी 'तुः ' विशेषणे, स च जघन्यस्थित्यपेक्षयाऽस्या उक्तमेव विशेषं द्योतयति, नवभिवर्षैर्न्यूना ज्ञातव्या शुक्लेश्यायाः स्थितिरिति प्रक्रमः, इह च यद्यपि कश्चित्पूर्वकोट्ययुरष्टवार्षिक एव व्रतपरिणाममाप्नोति तथाऽपि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्याया: सम्भव इति नवभिर्वर्षैन्यूना पूर्वकोटिरुच्यते । 'एसा' सूत्रं स्पष्टमेव । प्रतिज्ञातानुरूपमाह--दशवर्षसहस्राणि कृष्णायाः स्थितिर्जघन्यका भवति, भवनपतिव्यन्तरेषु चास्याः सम्भवस्तेषामेव जघन्यतोऽप्येतावत्स्थितिकत्वात्, उक्तं च- "दस भवनवणयराणं वाससहस्सा लिई जहत्रेणं" ति, 'पलियमसंखेज्जइमो 'त्ति पल्योपमासङ्ख्येयतमः प्रस्तावाद् भाग उत्कृष्टा भवति कृष्णायाः स्थितिरिति प्रक्रम, एवंविधविमध्यममायुषामेव भवनपतिव्यन्तराणामियं दृष्टव्या ।
सम्प्रति नीलायाः स्थितिमाह या कृष्णायाः स्थिति: 'खलुः' वाक्यालङ्कारे 'उत्कृष्टा' अनन्तरमुक्तरूपा 'सा उ'त्ति सैव 'समयमब्भहिय'त्ति समयाभ्यधिका जघन्येन नीलायाः, 'पलियमसंखिज्ज'त्ति प्राग्वत्पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिर्नवरमुक्तहेतोरेव वृहत्तरोऽयमसङ्ख्येय भागो गृह्यते । या नीलायाः स्थितिः खलूत्कृष्टा 'साउ'त्ति सैव समयाभ्याधिका जघन्येन कापोतायाः पल्योपमासङ्ख्येयश्च भाग उत्कृष्टा स्थितिः, एतावदायुषामेव भवनपतिव्यन्तराणामिमे मन्तव्ये, इहाप्युक्तहेतोरेव पूर्वस्माद्बृहत्तरोऽसङ्ख्यात भागः परिगृह्यते ।
इत्थं निकायद्वय भाविनीमाद्यलेश्यात्रयस्थितिमुपदर्श्य समस्तनिकायमाविनीं तेजोलेश्यास्थितिमभिधातुं प्रतिज्ञासूत्रमाह- 'तेन' त्ति ततः परं प्रवक्ष्यामि तेजोलेश्यां, 'यथे 'ति येनावस्थानप्रकारेण सुरगणानां भवति तथेत्युपस्कारः, किमन्यतरनिकायानामेवामीषामुतान्यथेत्याहभवनपतिवाणमंतरज्योतिर्वैमानिकानां चतुर्निकायानामिति योऽर्थ:, 'च: ' पूरणे, प्रतिज्ञातमेवाह-पल्योपमं जघन्या उत्कृष्टा 'सागर' त्ति सागरोपमे 'तुः ' प्राग्वत् 'द्वे' द्विसङ्ख्ये अधिके-अर्गल, कियतेत्याह-पल्योपमासङ्ख्येयेनेति योगः, भवति तैजस्याः स्थितिरिति प्रक्रमः, इयं च सामान्योपक्रमेऽपि वैमानिकनिकायविषयतयैव नेया, तत्र च सौधर्मेशानदेवानां जघन्यत उत्कृष्टतश्चैतावदायुषः सम्भवात् उपलक्षणं चैतच्छेषनिकायते जो लेश्यास्थिते:, ततश्च भवनपतिव्यन्तराणां जघन्यतो दशवर्षसहस्राणि उत्कृष्टतस्तु भवनपतीनां सागरोपममधिकं, व्यन्तराणां च पल्योपमं ज्योतिष्काणां तु जघन्यतः पल्योपमाष्टभागः, उत्कृष्टस्तु वर्षलक्षाधिकं
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International