________________
२३८
उत्तराध्ययन- मूलसूत्रम्-२-३४/१४३१ मू.(१४३१) जाकिण्हाई ठिई खलु उक्कोसा सा उ समयमभहिया।
जहन्नेणं नीलाए पलियमसंखं च उक्कोसा।।। मू. (१४३२) जा नीलाइ ठिई खलु उक्कोसा सा उसमयमभहिया।
जहन्नेणं काऊएपलियमसंखं च उक्कोसा। मू.(१४३३) तेन परंवुच्छामी तेऊलेसा जहा सुरगणाणं।
भवणवइवाणमंतरजोइसवेमानियाणं च ।। मू. (१४३४) पलिओवमं जहन्ना उक्कोसा सागरा उ दुण्हऽहिया।
पलियमसंखिज्जेणं होई भागेण तेऊए। मू.(१४३५) दसवाससहस्साइं तेऊइ ठिई जहनिया होइ।
दुन्नुदही पलिओवमअसंखभागं च उक्कोसा।। मू.(१४३६) जा तेऊइ ठिई खलु उक्कोसा उसमयब्भहिया।
जहन्नेण पम्हाए दस मुहत्तऽहियाई उक्कोसा।। मू.(१४३७) जा पम्हाइ ठिई खलु उक्कोसा उसमयब्भहिया।
जहन्त्रेण सुक्काए तित्तीसमुहुत्तमब्भहिया ।। वृ.दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः 'पलियमसंखेज्जभागं च'त्ति सूत्रत्वात् पल्योपमासङ्ख्येयभागं चोत्कृष्टा, पठन्ति च-'उक्कोसा तिन्नुदही पलियमसंखेज्जभागऽहिय'त्ति स्पष्टम, इयं च जघन्या रत्नप्रभायां, तस्यां हि जघन्यतोऽपि दशवर्षसहस्राण्यायुरिति, उत्कृष्टा च वालुकाप्रभायां, तत्राप्युपरितनप्रस्तटनारकाणामेव, तेषामेतावत्स्थितिकानामसाविति भावनीयम्।।
त्रय उदधयः पल्योपमाख्येयभागश्च मकारस्यालाक्षणिकत्वात् चस्य गम्यमानत्वाज्जवन्या नीलायाः स्थितिर्दशोदधय: पल्योपमासङ्ख्येयभागश्चोत्कृष्टा, इहापि जघन्या वालुकाप्रभायामेतावत्स्थितिकानामेव, उत्कृष्टा च धूमप्रभायामुपरितनप्रस्तटनारकाणां, तत्रापि येषामेतावती स्थितिरिति मन्तव्या, इहोत्तरत्र च पाठान्तरं दृश्यते, तत्र च जघन्यस्थितिः समयाधिकत्वमुक्तं तच्च न बुध्यत इति न तद्याख्या, दशोदधयः पल्योमासङ्ख्येयभागो जघन्यिका भवति प्रक्रमास्थितिः कृष्णाया इति सम्बन्धः, अस्याश्च धूमप्रभायामेतावत्स्थितिकेष्वेव नारकेषु सम्भवः, त्रयस्त्रिंशत्सागरोपमाणि उत्कृष्टा भवति कृष्णायाः, स्थितिरितीहापि प्रक्रमः, इयं च महातमः-- प्रभायां, तत्रैवैतावत्प्रमाणस्यायुषः सम्भवात्, इहच नारकाणामुत्तरत्र चदेवानां द्रव्यलेश्यास्थितिरेवैवं चिन्त्यते, तद्भावलेश्यानां परिवर्त्तमानतयाऽन्यथाऽपि स्थितेः सम्भवात्, उक्तं हि
"देवाण नारयाण य दव्वलेसा भवंति एयाओ।
भावपरावत्तीए सुरणेरइयाण छल्लेसा ।।" पूर्वोक्तं निगमयन्नुत्तरं च ग्रन्थं प्रस्तावयन्निदमाह-'एषा' अनन्तरोक्ता निरये भवा नैरयिकास्तेषां सम्बन्धिनीनां लेश्यानां स्थितिः' अवस्थितिः 'तुः' पूरणे वर्णिता' आख्याता बवति, 'तेन'त्ति सूत्रत्वात्ततः 'परम्' इत्यग्रतो वक्ष्यामि प्रक्रमाल्लेश्यानां स्थिति तिर्यग्मनुष्याणां तथा देवानाम् ।। यथाप्रतिज्ञातमेवाह-'अंतोमुत्तमद्ध'त्ति 'अन्तर्मुहुर्ताद्धाम्' अन्तर्मुहूर्त्तकालं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org