SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ २३४ उत्तराध्ययन-मूलसूत्रम्-२-३४/१४०३ पारास्तत्परिणतः तत्प्रवृत्त्या तदात्मतां गतः, तथा 'क्षुद्रः सर्वस्यैवाहितेपी कार्पण्ययुक्तो वा, सहसा-अपर्यालोच्य गुणदोषान् प्रवर्तत इति साहसिकः, चौर्यादिकृदिति योऽर्थः, 'नरः' पुरुप उपलक्षणत्वात्स्त्र्यादि। मू.(१४०४) निद्धंघसपरिणामो, निस्ससो अजिइंदिओ। एयजोगसमाउत्तो, कण्हलेसंतु परिणमे ।। वृ. 'निद्धंधस'त्ति अत्यन्तमैहिकामुष्मिकापायशङ्काविकलोऽत्यन्तं जन्तुबाधानपेक्षो वा परिणामोऽध्यवसायो वा यस्य स तथा 'निस्संसो'त्ति 'नृशंसः' निस्तूंशो जीवान् विहिंसन् मनागपि न शङ्कते, निःशंसो वा-परप्रशंसारहितः । 'अजितेन्द्रिय:' अनिगृहीतेन्द्रियः, अनेय तु पूर्वसूत्रोत्तरार्द्धस्थान इदमधीयते तच्चेहेति, उपसंहारमाह-एते च तेऽनन्तरोक्ता योगाश्चमनोवाकायव्यापारा एतद्योगा:- पञ्चाश्रवप्रमत्तत्वादयस्तैः समिति-भृशमाडित्यभिव्याप्त्या युक्तः-अन्वितः एतद्योगसमायुक्तः कृष्णलेश्यां 'तुः' अवधारणे कृष्णलेश्यामेव परिणमेत्' तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पत्स्फिटिकवत्तदुपरञ्जनात्तद्रूपतां भजेत्, उक्तं हि "कृष्णादिद्रव्यसाचिव्यात्परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ।।" एतेन पञ्चाश्रवप्रमत्तत्वादीनां भावकृष्णलेश्याया: सद्भावोपदर्शनादमीषां लक्षणत्वमुक्तं, यो हि यत्सद्भाव एव भवति स तस्य लक्षणं यथौष्प्यमग्नेः, एवमुत्तरत्रापि लक्षणत्वभावना कार्या। मू.(१४०५) इस्साअमरिसअतवो, अविज्जमाया अहीरिया। गेही पओसे य सढे, रसलोलुए सायगवेसए य॥ वृ. नीललेश्यालक्षणमाह-ईर्ष्या च परगुणासहनममर्षश्च-अत्यन्ताभिनिवेशोऽतपश्चतपोविपर्ययोऽमीषां समाहारनिर्देशः, 'अविज्ज'त्ति 'अविद्या' कुसास्त्ररूपा माया-वञ्चनात्मिका 'अहीकता च' असमाचारविषया निर्लज्जता 'गृद्धिः' अभिकाङ्क्षा विषयेष्विति गम्यते 'प्रदोषश्च' प्रद्वेषो मतुब्लोपादभेदोपचाराद्वा सर्वत्र तद्वान् जन्तुरुच्यतेऽत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात्, पाठान्तरतः शठश्च मत्तः, तथा रसेषु लोलुपो-लम्पटो रसलोलुपः, सातं-सुखं तद्गवेषकश्च-कथं मम सुखं स्यादिति बुद्धिमान्, मू. (१४०६) आरंभा अविरओ, खुद्दो साहस्सिओ नरो। एयजोगसमाउत्तो, नीललेसं तु परिणमे। वृ.'आरम्भात्' प्राण्युपमर्दात् 'अविरतः' अनिवृत्तः क्षुद्रः साहसिको नरः, एतद्योगसमायुक्तो नीललेश्यां परिणमेत्, 'तुः' प्राग्वत्पुनरर्थो वा ४।। मू.(१४०७) वंके वंकसमायारे, नियडिल्ले अनुज्जुए। पलिउंचग ओवहिए, मिच्छदिट्ठी अनारिए। वृ.'वक्र:' वचसा वक्रसमाचारः' क्रियया निकृतिमान्' मनसा अनृजुकः' कथंचिदृजूकर्तुमशक्यतया 'पलिउचग'त्ति प्रतिकुञ्चक:-स्वदोषप्रच्छादकतया उपधिः-छा तेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy