SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-३४,[ नि.५४९] २३३ रादपि गन्धाद् अनन्तगुणः अतिशयसुगन्धितया प्रशस्तलेश्यानां 'तिसृणामपि' तैजसीपद्मशुक्लानां गन्ध इति प्रक्रमः, इहापि प्रशस्तत्वविसेषाद्गन्धविशेषोऽनुमीयत इति नोक्त इति मू.(१४००) जह करगयस्स फासो गोजिब्बाए व सागपत्ताणं। इत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं ।। वृ. यथा 'करगयस्स'त्ति क्रकचस्य करपत्रस्य स्पर्शो गोर्जिह्वा गोजिह्वा तस्या वा यथा वा शाको-वृक्षविशेषस्तत्पत्राणां स्पर्श इति प्रक्रमः, अतोऽपि' एतत्प्रकारादपि स्पर्शादनन्तगुणः अत्यतिशायितया यथाक्रमं लेश्यानामप्रशस्तानामाद्यानां तिसृणां प्रक्रमात्स्पर्शोऽतिकर्कशइति हृदयम्। मू.(१४०१) जह बूरस्सवि फासो नवनीयस्स व सिरीसकुसुमाणं। __इत्तोवि अनंतगुणो पसत्थलेसाण तिण्हपि।। वृ. यथा 'बूरस्य वा' प्रतीतस्य स्पर्श: 'नवनीतस्य' म्रक्षणस्य, यथा वा शिरीषो-वृक्षविशेषस्तत्कुसुमानामुभयत्र यथा स्पर्श इति प्रक्रमः, 'अतोऽपि' एतत्प्रकारादपि स्पर्शाद् 'अनन्तगुणः' अतिसुकुमारतया यथाक्रम प्रशस्तलेश्यानां 'तिसृणामपि' उक्तरूपाणां स्पर्श इति प्रक्रमः, इह च यदनेकदृष्टान्तोपादानं तन्नानादेशविनेयानुग्रहार्थं, क्वचिद्धि किञ्चित्प्रतीतमिति, यद्वा निगदितोदाहरणेषु वर्णादितारतम्यसम्भवाल्लेश्यानां स्वस्थानेऽपि वर्णादिवैचित्र्यज्ञापनार्थमिति सूत्रद्वयार्थः॥ परिणामद्वारमाहमू. ( १४०२) तिविहो व नवविहो वा सत्तावीसइविहिक्कसी वा। हुसओ तेयालो वालेसाणं होइ परिणामो॥ वृ. त्रिविधो नवविधो वा 'सत्तावीसइ विहेक्कसीओ वत्ति विधशब्दो वाशब्दश्चोभयत्र संबध्यते, ततश्च सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति अत्रापि विधशब्दस्य सम्बन्धात् त्रिचत्वारिंशद्विशतविधो वा लेश्यानां भवति परिणामः-तत्तद्रूपगमनात्मकः, इह च 'त्रिविधः' जघन्यमध्यमोत्कृष्टभेदेन 'नवविधः' यदैषामपि जघन्यादीनां स्वस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना एवं पुनस्त्रिकगुणनया सप्तविंशतिविधत्वमेकाशीतिविधत्वं त्रिचत्वारिंशद्विशतविधत्वं च भावनीयम् । आह-एवं तारतम्यचिन्तायां कः सङ्ख्यानियमः? उच्यते, एवमेतत्, उपलक्षणं चैतत्, तथा च प्रज्ञापना-"कण्हलेसा णं भंते ! कतिविधपरिणामं परिणमति?, गोयमा!तिविहंवा नवविहंवा सत्तावीसइविहंवा एक्कासीइविहं वावि तेयालदुसयविहं वा बहुं वा बहुविहं वा परिणामं परिणमति, एवं जाव सुक्कलेसा" इति सूत्रार्थः । उक्तः परिणामः, सम्प्रति लक्षणमाह, तत्र चमू.(१४०३) पंचासवप्पमत्तो तीहि अगुत्तो छसू अविरओ य। तिव्वारंभपरिणओ खुद्दो साहस्सिओ नरो।। वृ. पञ्चाश्रवा-हिंसादयस्तैः प्रमत्तः-प्रमादवान् पञ्चाश्रवप्रमत्तः पाठान्तरतः पञ्चाश्रवप्रवृत्तो वाऽतस्त्रिभिः प्रस्तावान्मनोवाक्कायैः 'अगुप्तः' अनियन्त्रितो मनोगुप्यादिरहित इत्यर्थः, तथा 'षट्सु' पृथ्वीकायादियु अविरतः' अनिवृत्तस्तदुपमर्दकत्वादेरिति गम्यते, अयं चातीवारम्भोऽपि स्यादत आह-तीव्रा-उत्कटाः स्वरूपतोऽध्ववसायतो वाऽऽरम्भाः-सावधव्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy