________________
अध्ययन-३२,[नि.५३०]
'समस्तु' अरक्तद्विष्टतया तुल्यः पुनर्यः 'तयोः' मनोज्ञेतररूपयोः स 'वीतराग' इति तथाविधाभावतो वीतरागस्तदविनाभावित्वाद् द्वेषस्य तथैव वीतद्वेषश्च, इदमाकृतम्-यस्यैव रागद्वपो स्तस्तस्यैव तदुदीरकत्वेनानयोस्तज्जनकत्वमुच्यते न तु यः सम एव, तथा च न तावच्च-- क्षुस्तयोः प्रवर्तयेत्, कथञ्चित्प्रवर्त्तने वा समतामेवालम्बेतेत्युक्तं भवति, ननु यद्येवं रूपमेव रागद्वेषजनकं ततस्तदुद्धरणाधिनस्तद्गतैव चिन्ताऽस्तु, रूपे चक्षुर्न प्रवर्तयेदित्येवं तु न युक्तैव चक्षुपश्चिन्ता इत्याशङ्कयाह-रूपस्य चक्षुः गृह्णातीति ग्रहणं, बहुलवचनात्कर्त्तरिल्युट्, तद्वदन्ति, तथा चक्षुषो रूपं गृह्यत इति प्राग्वल्लयुटिग्रहणं-ग्राह्यं तद्वहन्ति, अनने रूपचक्षुषोाह्यग्राहकभाव उक्तः, तथा च न ग्राहकं विना ग्राह्यत्वं नापि ग्राह्यं विना ग्राहकत्वमित्यनयोः परस्परमुपकार्योपकारकभाव उक्तो भवति, एतेन त्वनयो रागद्वेषजनने सहकारिभावः ख्याप्यते, तथा च यथा रूपं रागद्वेषकारणं तथा चक्षुरपि, अत एवाह
रागस्य हेतु-कारणं प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञं, मनोज्ञरूपविषयमित्युक्तं भवति, 'आहुः'ब्रुवते, यत्र तु 'हेउंतमणुन्न मिति पाठस्तत्र 'तं'ति तच्चक्षुर्मनोज्ञं मनोज्ञरूपविषयत्वेन ततो दोषो-द्वेषः, उक्तं हि-"ईप्या रोपो द्वेषः" इत्यादि, तस्य हेतुममनोज्ञम्-अमनोज्ञरूपं, पाठान्तरतश्च हेतुं तदमनोज्ञमाहुः, उभयप्रक्रमेऽपि चक्षुष एव विशेष्वत्वेनोपदर्शनं, रूपस्य पूर्वसूत्रेणैव, एवं च रूपचक्षुषोः सहितयोरेव रागद्वेषजनकत्वाद्युक्तमुक्तं तावुद्धत्तुंकामो रूपे चक्षुर्न प्रवर्तयेत्, यदा तु पाश्चात्यपादत्रयं पूर्ववत्पठ्यते तदा पूर्वसूत्रे चक्षुषो रूपं ग्रहणं-ग्राह्यमिति व्याख्येयं, ततश्चेहापि ग्राह्यग्राहकभाव उक्तः, तत्र चोक्त एवाभिप्रायः, तथा यदि चक्षू रागद्वेषकारणं न कश्चिद्वीतरागः स्यादत आहसमश्चेत्यादि, शेपं सुगमम् ।
आह-अस्त्वयं रागद्वेषोद्धरणोपायः, एतदनुद्धरणे च को दोपः? येन तदुद्धरणार्थमित्थमुपदिश्यत इत्याह-'रूपेषु यो 'गृद्धि' गाऱ्या रागमित्यर्थः, उक्तं हि वाचकैः
"इच्छा मूर्छा कामः स्नेहो गायं ममत्वमभिनन्दः।
अभिलाष इत्यनेकानि रागपर्यायवचनानि ।।" 'उपैति' गच्छति तीव्राम्' उत्कटां गृद्धेर्विशेषणं, सकिमित्याह-अकाले भवम् आकालिंकयथास्थित्यायुरुपररमादागेव प्राप्नोति स 'विनाश' घातं, पाठान्तरतः 'क्लेशं वा' मरणान्तबाधात्मकं, रागेणातुरो-विह्रलो रागातुरः सन 'से' इति स लोकप्रतीत: 'यथा वा' इति वाशब्दस्यैवकारार्थत्वाद् 'यथैव' येनैव प्रकारेण पतङ्गः' शलभ: आलोक: अतिस्निग्धदीपशिखादिदर्शनं तस्मिन् लोलोलम्पट आलोकलोलः समुपैति 'मृत्युं' प्राणत्यागं, तस्यापि गृद्धाऽऽलोकलोलत्वं राग एवेति भावः । ___ 'यश्च' इति यस्तु, अपीति च तस्मिन्नित्यनेन योक्ष्यते 'दोषं द्वेष समुतित्ति वचनव्यत्ययात् 'समुपैति' समुपगच्छति रूपेवितिप्रक्रमः 'नित्यं' सदा न तु कदाचित्, स किमित्याह-तस्मिन्नपि 'क्षणे' प्रस्तावे यस्मिन् द्वेष उत्पन्नः “स' इति सः 'तुः' पूरणे उपैति 'दुःखं' शारीरादि, द्विष्टो हि किमिदमनिष्टं मया दृष्टमितिमनसा व्याकुलीभवति परितप्यते च देहेन, नतु यथा रागमुपगच्छंस्तकाले मनोज्ञविषयावलोकनजनितं सुखमभिमन्यते उत्तरकालमेव तु दुःखमिति, पठन्ति च 29/14
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org