________________
अध्ययनं-१,[ नि. ६४]
५७ 'प्रतिगृह्णीयात्' स्वीकुर्यात्, 'संयतः' यतिरिति सूत्रार्थः । इत्थं सूत्रद्वयन गवेषणाग्रहणेपणाविपयं विधिमुक्त्वा ग्रासैषणाविधिमाहमू.( ३५) अप्पपानेऽप्पबीए वा. पडिच्छन्ने य संवुडे।
समयं संजओ भुंजे, जयं अप्परिसाडियं ।। वृ. अल्पशब्दोऽभावाभिधायी, तथेहापि सूत्रत्वेन मत्वर्थीलोपात् प्राणा:-प्राणिनस्ततचाल्पा- अविद्यमानाः प्राणा:-प्राणिनो यस्मिस्तदल्पप्राणां तस्मिन्-अवस्थितागन्तुकजन्तु-- विरहिते, उपाश्रयादाविति गम्यते, तथा अल्पानि-अविद्यमानानि बीजानि-शाल्यादीनि यस्मिस्तदल्पचीजं तस्मिन्, उपलक्षणत्वाच्चास्य सकलंकेन्द्रियविरहिते, ननु चाल्पप्रमाण इत्युक्ते अल्पवीज इति गतार्थं, बीजानामपि प्राणत्वाद, उच्यते. मुखनासिकाभ्यां यो निर्गच्छति वायुः स एवेह लोके रूढित: प्राणां गृह्यते, अयं च द्वन्द्रियादीनामेव संभवति, न बीजायेकेन्द्रियाणामिति कथं गतार्थता?, तत्रापि 'प्रतिच्छन्ने' उपरिप्रावरणान्विते, अन्यथा सम्पातिमसत्त्वसम्पात - सम्भवात्, 'संवृत्ते' पार्श्वत: कटकुट्यादिना सङ्कटद्वारे, अटव्यां कुडङ्गादिपु वा, अन्यथा दीनादियाचने दानादानयोः पुण्यबन्धप्रतपादिदर्शनात्, संवृतो वा सकलाश्रववरिमणात्, 'समकम्' अन्यैः सह, न त्वेकाक्येव रसलम्पटतया समूहासहिष्णुतया वा, अत्राह च
"साहवो तो चियत्तेणं, निमंतिज्ज जहक्कम।
जइ तत्थ कोइ इच्छेज्जा, तेहिं सद्धिं तु भुंजए ।।"त्ति, गच्छास्थितसामाचारी चेयं गच्छस्यैव जिनकल्पिकादीनामपी मूलत्वख्यापनायोक्ता, उक्तं हि-'गच्छेच्चिय निम्माओ' इत्यादि, यद्वा 'समय'ति सममेव समकं-सरसविरसादिप्वभिप्वङ्गादिविशेपरहितं, सम्यग् यतः संयतः यतिरित्यर्थः, 'भुञ्जीत' अश्नीयात् 'जय'ति यतमानः 'अप्परिसाडियंति परिसाटविरहितमिति सूत्रार्थ: ।। यदुक्तं यतमानं'इति, तत्र वाग्यतनामाहमू. (३६) सुकडंति सुपक्कंति, सुछिन्नं सुहडे मडे।
सुनिटिए सुलद्वित्ति, सावजं वज्जए मुनी।। वृ.'सुकृतं'सुष्ठु निर्वर्तितमन्नादि 'सुपक्वं 'घृतपूर्णादि, 'इति;' उभयत्र प्रदर्शने, 'सुच्छिन्नं' शाकपत्रादि 'सुहूर्त' शाकपत्रादेस्तिक्तत्त्वादि घृतादि वा सुपविलेपिकादीनां, तथा 'मड़े'त्ति प्रक्रमात् सुष्ठ मृतं घृताद्येव सक्तुसुपादौ, तथा सुष्टु निष्ठितमित्यतिशयेन निष्ठां-रसप्रकर्पपर्यन्तात्मिकां गतं, 'सुलट्टित्ति सर्वैरपि रसादिभिः प्रकार: शोभनमिति, 'इति' एवंप्रकारार्थः, एवंप्रकारामन्यदपि सावधं प्रक्रमाद्वचो, वर्जयेन्मुनिः।।
यद्वा-सुठुकृतं यदनेनारातेः प्रतिकृतं, सुष्ठ पक्वं मांसाशनादि, सुच्छिन्नोऽयं न्यग्रोधपादपादिः, सुहतं कदर्यादर्थजातं, सुहतो वा चौरादिः, सुमृतोऽयं प्रत्याकधिग्वर्णादिः, सुनिष्ठितोऽयंप्रासादकृपादिः, 'सुलट्टि'त्ति शोभनोऽयं करितुरगादिरिति सामान्येनैव सावद्यं वचोवर्जयेन्मुनिः। निरवद्यं तं सुकृतमनेन धर्मध्यानादि, सुपक्वमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहतमुपकरणमशिवोपशान्तये, सुहतं वा कानीकादि, सुमृतस्य पण्डितमरणमर्तुः, तथा सुनिष्ठितोऽसौ साध्वाचारविषये., 'सुलट्टित्ति शोभनमस्य तपोऽनुष्ठानमित्यादिरूपं, कारणतो वा
"पयत्तपक्वेत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्नमालवे।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org