________________
१८८
उत्तराध्ययन मूलसूत्रम्-२-३०/१२२५ इत्यवसितोऽनुगमो, नयाश्च प्राग्वत् ।।
अध्ययनं ३. सगप्तम् मुनि दीपरत्नसगारेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे त्रिंशत्तममध्ययनं सनियुक्तिः सटीकं परिसमाप्तम्
(अध्ययनं-३१-चरणविधिःवृ. व्याख्यातं त्रिंशत्तममध्ययनम. अधुनैकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः - अनन्तराध्ययने तप उक्तम्, इह तु तच्चरणवत एव सम्यग् भवतीति चरणमुच्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य पूर्ववदुपक्रमादिद्वारचतुष्टयप्ररूपणा तावद्यावत्रामनिष्पन्ननिक्षेपे चरणविधिरिति नाम, अतश्चरणविधिशब्दनिक्षेपायाह नियुक्तिकृत्नि. [५१९] निक्लेवो चरणंमि(मी) चउव्विहो दुविहो य होइ दव्वंमि ।
आगमनोआगमओ नोआगमओ य सो तिविहो।। नि. [५२०] जाणगसरीरभविए तव्वतिरित्ते य गइभिक्खमाईसुं।
____ आचरणे आचरणं भावाचरणं तु नायव्वं ।। नि. [५२१] निक्खेवो उ विहीएं चउव्विहो दुविहो य होइ दव्वंमि।
आगमनोआगमओ नोआगमओ य सो तिविहो ।। नि. [५२२] जागणसरीरभविए तव्वतिरित्ते य इंदियत्थेसुं।
.. भावविही पुन दुविहा संजमजोगो तवो चेव ।। वृ. गाथाचतुष्टयं स्पष्टमेव, नवरं 'तव्वइरित्त यत्ति तद्यतिरिक्तं च गतिभिक्षादिषु गति:गमनं भिक्षा-भक्षणं, पठ्यते च 'चर गतिभक्षणयोः' इति, आदिशब्दादासेवापरिग्रहः, उक्तं हि-"चरतिरासेवायामपि वर्त्तते" इति, तत एतेषु सत्सु प्रक्रमाद्रव्यमेव सुब्ब्यत्ययेन गत्यादयो वा भावचरणकार्याकरणत्वेन तद्व्यतिरिक्तद्रव्यचरणं, तथा 'आचरणे' प्रस्तावाज्ज्ञानाद्याचारे 'आचरणम्' अनुष्ठानं सिद्धान्ताभिहितं 'भावे' विचार्ये चरणं 'तुः' विशेषणे ज्ञातव्यमिति ।।
तथा 'इंदियत्थेसुन्ति इन्द्रियाणि-स्पर्शनादीनि तेपामर्थाः-स्पर्शादयस्तेषु प्रक्रमाद् यः 'विधिः' अनुष्ठानमासेवनमितियावत्, अस्यापि द्रव्यत्वं भावविधिफलासाधकत्वेन द्रव्यप्राधान्यविवक्षया वा, भावविधिः पुनः द्विविधः द्विप्रकार:, द्वैविध्यमाह-'संयमयोगः' संयमव्यापार: 'तपश्चैव' अनशनाद्यनुष्ठानरूपं, चरणासेवनं ह्यत्र भावविधिः, सचैवंविध एवेति गाथाचतुष्टयार्थः ।। सम्प्रति येनेह प्रकृतं तदुपदर्शयत्रुपदेशमाहनि. [५२२] पगयं तु भावचरणे भावविहीए अ होइ नापव्वं ।
चइऊण अचरविहिं चरणविहीए उजइयव्वं ।। वृ. निगदसिद्धा, नवरं, भावचरणेन' प्रस्तावाच्चारित्राचारानुष्ठानेन 'अचरणविधिम्' अनाचारानुष्ठानं त्यक्त्वा 'चरणविधौ' उक्तरूपे 'यतितव्यं' यत्नो निधय इति गाथार्थः ।। मू. (१२२६) चइणविहिं पवक्खामि, जीवस्स उ सुहावहं।
जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org