SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ १८७ अध्ययनं -३०,[नि.५१८] साहम्मिय ७ कुल ८ गण ९ संघ १० संगयं तमिह कायव्वं ।।" 'आसेवनम्' एतद्विषयमनुष्ठानं यथास्थानं' स्वसामर्थ्यनतिक्रमेण वैयावृत्त्यं तदाख्यातमिति ३॥ स्वाध्यायमाहमू. (१२२२) वायगा पुच्छणा चेव, तहेव परियट्टणा। अनुप्पेहा धम्मकहा. सज्झाओ पंचहा भवे ।। व. 'वायणे'त्यादि प्राग्व्याख्यातप्रायमेव ४ ।। सम्प्रति ध्यानमाहमू.(१२२३) अट्टरुहाणि वज्जित्ता, झाईज्जा सुसमाहिए। धम्मसुक्काइं झागाई, झाणं तं तु बुहा वए। वृ. ऋतं-दुःखम्, उक्तं हि-"ऋतशब्दो दुःखपर्यायवाच्या श्रीयते" ऋते भवमात, तथा रोदयत्यपरानिति रुद्रः-प्राणिवधादिपरिणत आत्मैव तस्येदं कर्मरोद्रम्, आत्तं च रौद्रं च आतरौद्रे, प्राकृतत्वाच्च बहुवचननिर्देशः, 'वर्जयित्वा' हित्वा ध्यायेत्सुसमाहितः प्राग्वत्, किमित्याहधर्म:-क्षमादिदशलक्षणस्तस्मादनपेतं धर्म्य शुक्लं-शुचि-निर्मलं सकलमिथ्यात्वादिमलविलयनात् यद्वा शुगिति-दुःखमष्टप्रकारं वा कर्म ततः शुचं क्लमयति-निरस्यतीति शक्लमनयोर्द्वन्द्वस्तत: धर्म्यशुक्लध्याने स्थिराध्यवसानरूपे, उक्त हि-"जं थिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं"त्ति, 'ध्यान' ध्यानाख्यं तपस्तत् तुशब्दस्यैवकारार्थत्वात्तदेव बुधाः वयंति' वदन्ति ।। अधुना व्युत्सर्गमाहमू. (१२२४) सयनासन ठाणे वा, जे उभिक्खू न वावरे। कायस्स विउस्सग्गो. छट्ठो सो परिकित्तिओ। वृ. शय्यत इति शयनं-संस्तारकादौ तिर्यक् शरीरनिवेशनं तत्रासनम्-उपवेशनं तस्मिन्, उभयत्र सूत्रत्वात्सुपोर्मुक् 'स्थाने' ऊर्ध्वंस्थाने 'वा' विकल्पे प्रत्येकं च योज्यते, स्वशक्त्यपेक्षं स्थित इति गम्यते, यस्तु भिक्षुः 'न वावरे'त्ति 'न व्याप्रियते' न चलनादिक्रियां कुरुते, यत्तदोनित्याभिसम्बन्धादर्थवशाद् विभक्तिपरिणामतश्च तस्य भिक्षोः 'कायस्य' शरीरस्य 'व्युत्सर्ग: चेष्टां प्रति परित्यागो यः 'छट्ठो सो परिकित्तितो'त्ति सूत्रत्वाल्लिङ्गव्यत्यये षष्टं 'तत्' प्रक्रमादभ्यन्तरं तपः 'परिकोत्तितं' तीर्थकरादिभिरुक्तं, शेषव्युत्सर्गोपलक्षणं चैतद्, अनेक-विधत्वात्तस्य, "दव्वे भावे य तहा दुविधुस्सग्गो चउव्विहो दव्वे। गणदेहोवहिभत्ते भावे कोहा इचातोत्ति ।।" इति सूत्रषट्कार्थः ।। सम्प्रत्यध्ययनार्थमुपसंहरन्नस्यैव फलमाहमू.(१२२५) एवं तवं तु दुविहं, जं सम्मकआयरे मुनी। से खिप्पं सव्वसंसारा, विप्पमुच्चइ पंडिए। तिबेमि।। वृ. 'एतत्' अनन्तरोक्तस्वरूपं तवं तु दुविहं'ति तपः द्विविधमपि उक्तभेदतो द्विभेदमपि यः सम्यक् 'आचरेत्' आसेवते मुनिः स क्षिप्रं 'सर्वसंसारात्' चतुर्गतिरूपात् 'विप्रमुच्यते' पृथग्भवति पण्डितः, पठन्ति च-'सो खवेत्तु रयं अरओ, नीरयं तु गई गए' इह च 'आयरे'त्ति तिव्यत्ययादाचारीत्, अतीतनिर्देशश्च भूतभविष्यतोरप्युपलक्षणं, कालत्रयेऽपि तुल्यमाहात्म्यत्वादस्यतत्क्षेत्रापेक्षा(क्षया) वेति सूत्रार्थः ॥ 'इति' परिसमाप्तौ, ब्रवीमिति पूर्ववत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy