SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ १६२ उत्तराध्ययन-मूलसूत्रम्-२-२९/११४३ निरभिष्वङ्गतया 'निःसङ्गत्वं' वहिःसङ्गाभावं जनयति, निःसङ्गत्वेन जीव एको रागादिविकलतया तत एव 'एकाग्रचितः' धमैकतानमना एकाग्रताविबन्धकहेत्वभावात्, ततश्च दिवा वा रात्रौ वाऽसजन्, कोऽर्थः?-सदा बहिः-सङ्गं त्यजन्नप्रतिबद्धश्चापि विहरति, कोऽभिप्रायः?विशेषतः प्रतिबन्धविकलो मासकल्पादिनोद्यतविहारेण पर्यटति। मू. (११४४) विवित्तसयणासणयाए णं भंते ! जीवे किं जणेइ?, चरित्तगुत्तिं जणेइ, चरितगुत्ते णं जीवे विवित्ताहारे दढचरिते एगंतरए मुक्खस्वभावपडिपने अडविहं कम्मगंठिं निज्जरेइ ।। वृ. अप्रतिबद्धता च विविक्तशयनासनतायां संभवत्यतस्तामाह-विविक्तानि-स्त्र्याद्यसंसक्तानि शयनासनान्युपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुप्ति' चरणरक्षां जनयति चरित्तगुत्ते'त्ति प्राग्वद्, गुप्तचरित्रश्च जीवो विविक्तो-विकृत्यादिरहित आहारो यस्य स तथा, गुप्तचारित्रो हि सर्वत्र निःस्पृह एव भवति, तथा दृढं-निश्चलं चरित्रमस्येति दृढचरित्रस्तत एवैकान्तेन-निश्चयेन रतः-अभिरतिमानेकान्तरतः संयम इति गम्यते, तथा मोक्षे-मुक्तौ भावने-अन्त:करणेन प्रतिपन्न-आश्रितः मोक्षभावप्रतिपन्न: मोक्ष एव मया साधयितव्य इत्यभिप्रायवान् अष्टविधकर्मग्रन्थिरिव ग्रन्थि१भेदतयाऽष्टविधकर्मग्रन्थिस्तं 'निर्जरयति' क्षपक श्रेणिप्रतिपत्त्या क्षपयति । मू. (११४५) विणिबट्टणयाए णं भंते ! जीवे किं जणेइ?, पावकम्माणं अकरणयाए अब्भुट्टेइ पुव्वबद्धाण य निज्जरयाए पावं नियत्तेइ, तओ पच्छा चाउरंतं संसारकतारं वीईवयइ ।। वृ. विविक्तशयनासनतायां च विनिवर्त्तना भवतीति तामाह-'विनिवर्त्तनया' विषयेभ्य् आत्मनः परांमुखीकरणरूपया पापकर्मणां' सावद्यानुष्ठानानाम् अकरणतया' न मया पापानि कर्तव्यानीत्येवंरूपया 'अभ्युत्तिष्ठते' धर्म प्रत्युत्सहने, पूर्वबद्धानां पापकर्मणामिति प्रक्रमः, चशब्दो निर्जरनानन्तरं द्रष्टव्यः ततः पूर्वबद्धानां निर्जरनया चशब्दादभिनवानुपादानेन च तदिति कर्म 'निवर्तयति' विनाशयति, यदिवा पापकर्मणां-ज्ञानावरणादीनाम् 'अकरणयाइ'त्ति आर्षत्वाद् 'अकरणेन' अपूर्वानुपार्जनेनाभ्युतिष्ठते मोक्षायेति शेषः, पूर्वबद्धानां च कर्मणां निर्जरनया, अन्यत्प्राग्वत् मू.(११४६)संभोगपच्चक्खाणेणं भंते! जीवे कि जणेइ?, आलंबणाइंखवेइ, निरालंबणस्स य आययडिया जोगा भवन्ति, सएणं लाभेणं संतूसइ परस्स लाभं नो आसाएइ नो तक्केइ नो पीहेइ नो पत्थेइ नो अभिलसइ, परस्स लाभं अनासाएमाणेअतक्केमाणे अपीहमाणे अपत्थेमाणे अनभिलसेमाणे दुच्चं सुहसिज्जं उवसंपज्जित्ता णं विहरइ॥ वृ. विषयनिवृत्तश्च कश्चित्सम्भोगप्रत्याख्यानवान् संभवत्यतस्तदाह-समिति-संकरेणस्वपरलाभमीलनात्मकेन भोगः सम्भोगः, एकमण्डलीकभोक्तृत्वमिति योऽर्थः तस्य प्रत्याख्यानं-गीतार्थावस्थायां जिनकल्पाद्यभ्युतविहारप्रतिपत्त्या परिहारः सम्भोगप्रत्याख्यानं तेन 'आलम्बनानि' ग्लानादीनि 'क्षपयति' तिरस्कुरुते, सदोद्यतत्वेन वीर्याचारमेवावलम्बते, निरालम्बनस्य चायतो-मोक्षः संयमो वा स एवार्थ:-प्रयोजनं विद्यते येषामित्यायतार्थिकाः 'योगाः' व्यापारा भवन्ति प्रपञ्चतश्च प्रवर्तन्ते, तथा 'स्वकीयेन' आत्मीयेन लाभेन सन्तुष्यति' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy