SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ अध्ययनं-२९,[ नि.५१३] . मू. (११४०) तवेणं भंते ! जीवे किंजणेइ ?, २ वोयाणं जणेइ ।। वृ. संयमवतोऽपि न तपो विना कर्मक्षय इति तदाह-'तपसा' वक्ष्यमाणेन 'वोदाणं'ति 'व्यवदानं' पूर्वबद्धकर्मापगमतो विशिष्टां शुद्धिं जनयति। - मू.(११४१) बोयाणेणं भंते! जीवे किं जणेइ?, २ अकिरियंजणेड़, अकिरियाए भवित्ता तओ पच्छा सिज्झइ०॥ वृ. इत्थं व्यवदानस्य तपोऽनन्तरफलत्वात्त(स्य त)दाह-व्यवदानेन 'अक्रियम्' अविद्यमानक्रिय, कोऽर्थः-व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थं भेदं जनयति, अक्रियाकः' व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा तत: पश्चात् तदनन्तरं 'सिध्यति' निष्ठितार्थो भवति 'बुध्यते' ज्ञानदर्शनोपयोगाभ्यां च वस्तुतत्त्वमगवच्छति, नतु नवात्मगुणात्यन्तोच्छेदात्मकमुक्तिवादिनामिवाबुद्धिमान् भवति, मुच्यते संसारान तु 'दग्धेन्धनः पुनरुपैति भव'मित्यादिवादिपरिकल्पितमुक्तवत्पुनरिहागमनवान् अत एव परिनिर्वातीत्यादि प्राग्वत्, आह-अनन्तरं तपसो व्यवदानं फलमुक्तं, तच्च मुक्त्याज्यफलोपलक्षकमित्यतिदेशेनोक्तमिति किं पुनस्तत्फलत्वेन साक्षादस्याभिधानम् ?, उच्यते सूत्रकृतां वैचित्र्यख्यापनार्थं, ते हि परार्थोद्यतचेतसः परेषां प्रज्ञाप्रकर्षापकर्षावपेक्ष्य क्वचित्साक्षादभिधानोचितानप्यर्थानस्पष्टतया निर्दिष्टवन्तः क्वचित्तु गम्यानपि च साक्षादन्यत्र तूभयथेति । मू.(११४२) सुहसाएणं भंते! जीवे किं जणेइ?, अनुस्सुयत्तंजणेइ, अनुस्सुए णं जीवे अनुकंपए अनुब्भडे विगयसोगे चरित्तमोहणिज्ज कम्म खवेइ ।। वृ. व्यवदानं च सत्स्वपि संयमादिषु सुखशायितायामेव भवतीति तामेवाह, तत्र च सुखं शेते, कोऽभिप्राय:?-प्रवचनशङ्कादीनां परलाभकामभोगशरीरसंबाधनादिमदनस्पृहादीनांच क्रमेणाभावरूपासु चतसृषु सुखशय्यासु स्थितत्वेन मनोविधाता भावनिराकुलतयाऽऽस्त इति सुखशायि तस्य भावः सुखशायिता, प्राकृतत्वात्सूत्रे यलोपः, तयाऽनुत्सुकत्वं कोऽर्थः ? - परलाभदिव्यमानुषकामभोगेषु सर्वदा निःस्पृहत्वं, यदिवा 'सुहसायाए'त्ति प्राकृतत्वात्सुखंवैषयिकं शातयति-तद्गमनस्पृहानिवारेणनापनयतीति सुखशातस्तस्य भावः सुखशातता तया, पठन्ति च--'सुहसाएणं'ति, तत्र च सुखशायः-सुखेन शयनं तेन, यदिवा सुखशात:-सुखस्य शातनं तेन जीवः 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहत्वं जनयति' उत्पादयति, संयमादि वेव निष्पत्रमानसत्वात्, अनुत्सुकश्च जीवोऽनुसह कम्पत इत्यनुकम्पकः, सुखोत्सुको हि नियमाणमपि प्राणिनमवलोकयन् स्वसुखरसिक एवासीत्, अयं तु तद्विपरीत इति दुःखेन कम्पमानमवलोक्य तदुःखदुःखितया स्वयमपि तत्काल एव कम्पत इति, तथा 'अनुद्भटः' अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशेऽपि शोचते, मुक्तिपदबद्धस्पृहत्वात्, एवंविधश्च प्रकृष्टशुभाध्यवसायतश्चारित्रमोहनीयं कर्म क्षयपति। मू.(११४३) अपडिबद्धयाण णं भंते ! जीवे किंजणेइ ?, निस्पंगत्तंजणेइ, निस्संगतेणं जीवे एगे एगग्गचित्ते दिया य राओ य असज्जमाणे अप्पडिबद्धे आवि विहरइ॥ वृ.सुखशय्यास्थितस्य चाप्रतिबद्धता भवतीति तामभिधातुमाह-'अप्रतिबद्धतया' मनसि 29/11 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy