________________
अध्ययनं - १, [ नि. ६४]
५१
वृ. 'प्रत्यनीकम्' इति प्रतिकूलं चः पूरणे, चेष्टितमित्युपरस्कारः, भावप्रधानत्वाद्वा निर्देशस्य प्रत्यनीकत्वं, केपाम् ? -'बुद्धानाम्' अवगतवस्तुतत्त्वानां गुरूणामितियावत् कया ? - वाचा, कि त्वमपि किञ्चिज्जानीषे ? इत्येवंरूपया विपरीतप्ररूपणायां प्रेरितस्त्वयैवेतदित्थमस्माकं प्ररूपितमित्याद्यात्मिकया वा, अथवा 'कर्मणा' संस्तारकातिक्रमणकरचरणसंस्पर्शनादिना 'आवि: ' जनसमक्षं प्रकाशदेश इतियावत्, यदिवा 'रहस्ये' विविक्तोपाश्रयादी 'न' इति निषेधे 'एव:' अवधारणे, स च 'शत्रोरपि गुणा ग्राह्याः, दोपा वाच्या गुरोरपि' ति कुमतनिराकरणार्थः, 'कुर्यात्' इति विदध्यात्. 'कदाचित् ' परुपभाषणादावपि इति । पुनः शुश्रूषणात्मकं तमेवाहमू. ( १८ ) न पक्खओ न पुरओ, नेव किच्चाण पिटुओ । न जुंजे उरुणा ऊरं, सयणे न पडिस्सुणे ॥
वृ. 'न पक्षतः ' दक्षिणादिपक्षमाश्रित्य, उपविशेदिति सर्वत्रोपस्कारः, तथोपवेशने तत्पंक्तिसमावेशतः तत्माम्यापादनेनाविनयभावात्, गुरोरपि वक्रावलोकने स्कन्धकन्धरादिबाधासम्भवात्, न 'पुरत: ' अग्रतः, तत्र वन्दकजनस्य गुरुवदनानलोकनादिनाऽप्रीतिभावात्, 'नैव' इति पूर्ववत्, कृतिः - वन्दकं तदर्हन्ति कृत्या: 'दण्डादित्वाद् यप्रत्ययः ' ते चार्थादाचार्यादयस्तेपां पृष्ठत:' पृष्ठदेशमाश्रित्य द्वयोरपि मुखादर्शने तथाविधरसवत्ताऽभावादिदोषसंभवात्, 'न युज्यात्' न संघट्टयेद् अत्यासत्रापवेशादिभिः, 'उरुणा' आत्मीयेन, 'उरुं' कृत्यसम्बन्धिनं, तथाकरणेऽत्यन्ताविनयसम्भवात् उपलक्षणं चैतत् शेषाङ्गस्पर्शपरिहास्य, 'शयने' शय्यायां शयित आसीनो वेति शेषः, किमित्याह-न प्रतिशृणुयात्, किमुक्तं भवति ? - कदाचिच्छय्यागतो गुरुणाऽऽकारित उक्तो वा कृत्यं प्रति न तथास्थित एवावज्ञया कुर्म एवमित्यादिवचनतः प्रतिजानीयत्, किन्तु गुरवचनसमनन्तरमेव सम्भ्रान्तचेता विनयविरचितकराञ्जालिः समीपमागत्य पादपतनपुरस्सरमनुगृहीतोऽहमिति मन्यमानो भगवन्निच्छामोऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ नेव पहृत्थियं कुज्जा, पक्खपिंडं व संजए।
मू. (१९)
पाए पसारिए वावि, न चिट्टे गुरुनंतिए ।
वृ. नैव 'पर्यस्तिकां' जानुजंघोपरिवस्त्रवेष्टनाऽऽत्मिकां कुर्यात् 'पक्षपिण्डं वा' वाहुद्वयकायपिण्डात्मकं, ‘संयतः' साधुः, तथा पादौ प्रसारयेत् वाऽपि नैव, वा समुच्चयार्थः, अपिः किं पुनरित इतो विक्षिपेदिति निदर्शनार्थः, अन्यच्च - 'न तिष्ठेत्' नाऽऽसीत, का?, गुरूणामन्तिके इति, प्रक्रमादतिसन्निधौ, किन्तूचितदेश एव, अन्यथाऽविनयदोषसम्भवात्, अथवा 'पाए पसारिए वावि 'त्ति पाठात्, पादौ प्रसारितो वाऽपि कृत्वेति शेषः, एकारस्यालाक्षाणिकत्वात् प्रसार्य वा न तिष्ठेद्गुरुणामन्तिके उचितप्रदेशेऽपीति, उपलक्षणं चैतद्दण्डपादिकाऽवष्टम्भादीनामिति सूत्रार्थ: || पुनः प्रतिश्रवणविधिमेव सविशेषमाह
मू. ( २० )
"
Jain Education International
-
आयरिएहिं वार्हितो, तुसिणीओ न कयाइवि ।
पसायट्ठी नियागट्टी, उवचिद्वे गुरुं सय ॥
वृ. 'आचार्यै: ' उपलक्षणत्वादुपाध्यायादिभिः 'वाहितो 'त्ति व्याहृतः - शब्दितः 'तुसिणीओ' - त्ति तृष्णीकः तूष्णीशील:, 'न कदाचिकपि' ग्लानाद्यावस्थायामपि भवेदिति गम्यते, किन्तु"धन्यस्योपरि निपतत्यहितसमान्त्ररणधर्मनिर्वापी ।
For Private & Personal Use Only
www.jainelibrary.org