________________
१३६
उत्तराध्ययन-मूलसूत्रम्-२-२८/१०८२ द्रव्याणीति शेषः, प्रसङ्गतो लोकस्वरूपमप्याह-एप इत्यादि, सुगममेव, नवरमेष इतिसामान्यतः प्रतीतो लोक इतीत्येस्वरूपः, कोऽर्थः? -अनन्तरोक्तद्रव्यषट्कात्मकः, उक्तं हि
"धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम् ।
तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ।।" इति सूत्रार्थः ।। आह-किमेतेऽपि धर्मादयो भेदवन्त उतान्यथा?, उभयथाऽपीति ब्रूमः, मू. (१०८३) धम्मो अधम्मो आगासं, दव्वं इकिकमाहियं ।
अनंतानि यदव्वाणि, कालो पग्गलजंतवो। वृ. धर्मोऽधर्म आकाशं द्रव्यमिति धर्मादिभिः प्रत्येक योज्यते 'एकैकं' एकसङ्ख्याया एवैतेषु भावाद् आख्यातं तीर्थकुद्भिरिति गम्यते, तत्किं कालादिद्रव्याण्यप्येवमेवेत्याह-'अनन्तानि' अनन्तसङ्खयानि स्वगतभेदानन्त्यात् 'च:' पुनरर्थे उत्तरत्र योक्ष्यते, कानि?, द्रव्याणि, कतमानि?--कालः पुद्गलजन्तवश्चोकारूपाः, कालस्य चानन्त्यमतीतानागतापेक्षयेति सूत्रार्थः ।। एषां परस्परभेदनिबन्धनं लक्षणभेदमाहमू.(१०८४) गइलक्खणो उधम्मो, अहम्मो ठाणलक्खणो।
भायणं सव्वदचाणं, नहं ओगाहलक्खणं॥ मू.(१०८५) वत्तणालक्खणो कालो, जीवो उवओगलक्खाणो।
नाणेणं दंसणेणं च, सुहेण य दुहेण य॥ मू.(१०८६) नाणं च दंसणं चेव, चरित्तं च तवो तहा।
वीरियं उवओगे य, एयं जीवस्स लक्खणं॥ मू.(१०८७) सबंधयारउज्जोओ, पभा छाया तवृति वा ।
वनरसगंधफासा, पुग्गलाणं तु लक्खणं। व. गमनं गतिः-देशान्तरप्राप्तिः लक्ष्यतेऽनेनेति लक्षणं, गतिर्लक्षणमस्येति गतिलक्षणः, 'तुः' पूरणे, काऽसौ ? - धर्मास्तिकाय:, आह-सिद्धे सति वस्तुनोऽस्तित्वे इदमनेन लक्ष्यत इति वक्तुं युक्तम्, अस्य तु सत्त्वमेवासिद्धम्, अत्रोच्यते, यद्यच्छुद्धपदवाच्यं तत्तदस्ति, यथा स्तम्भादिः, शुद्धपदवाच्यश्च धर्मनामास्तिकायो, नचायमसिद्धो हेतुः, धर्म इत्यस्यैतद्वाचकस्यासमस्तदत्वेन तथाऽभिधेयार्थबाधकप्रमाणाभावात् प्रमाणान्तरबाधितविषयत्वाख्यदोषरहित तत्वेन च सिद्धत्वात्, न च स्वपुष्पादिषु सङ्केतितैर्दुःखादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसङ्केतविषयाणामेवशुद्धपदानां वाच्यत्वस्येह हेतुत्वेनेष्टत्वात्, निपुणेन प्रतिपत्रा भाव्यम्, अन्यथा धूमादेरपि गोपालघटादिष्वन्यथाभावदर्शनादेप प्रसङ्गो दुर्निवार: स्यात्, उक्तं च
"अस्थिति निवियप्पो जीवो नियमा उ सद्दतो सिद्धी।
___ कम्हा? सुद्धपयत्ता द्यडखरसिंगानुमाणाओ।" इत्याद्यलं प्रसङ्गेन, तथा अधर्मः' अधर्मास्तिकायः स्थितिः स्थानं गतिनिवृत्तिरित्यर्थः, तल्लक्षणमस्येति स्थानलक्षणः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षाकारणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते, अनेनाप्यनुमानमेव सूचितं, तच्चेदम्यद्यत्कार्यं तत्तदपेक्षाकारणवद्, यथा घटादि, कार्यं चासौ स्थितिः, यच्च तदपेक्षाकारणं तदधर्मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org