________________
अध्ययनं-२८,[नि.५०६]
१३५ मू.(१०८१) गुणाणं आसओ दव्वं, एगदव्वस्सिया गुणा।
पज्जवाणं तु, उभओ अस्सिया भवे॥ वृ.'गुणानां' वक्ष्यमाणानाम् ‘आश्रयः' आधारो यत्रस्थास्त उत्पद्यन्ते चावतिष्ठन्ते प्रलीयन्ते च तद् द्रव्यम्, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदिति तथागतमतमपास्तं, तथाहियदुत्पादविनाशयोर्न वस्योत्पादविनाशौ न तत्ततोऽभिन्न, यथा घटात्पटो, न भवतश्च पर्यायोत्पादविनाशयोर्द्रव्यस्योत्पादविनाशी, न चायमसिद्धो हेतुः, स्थासकोशकुशूलाद्यवस्थासु मृदादि.. द्रव्यस्यानुगामित्वेन दर्शनात, न चास्य मिथ्यात्वं, कदाचिदन्यथादर्शनासिद्धेः, उक्तं हि
. "यो ह्यन्यरूपसंवेद्यः, संवेद्येतान्यथा पुनः
स मिथ्या न तु तेनैव, यो नित्यवगम्यते ।।" तथैकास्मिन् द्रव्ये स्वाधारभूते आश्रिताः-स्थिता एकद्रव्याश्रिताः, के ते? - ‘गुणाः' रूपादयः एतेन च ये द्रव्यमेवेच्छन्ति तद्यतिरिक्तांश्च रूपादीनविद्योपदर्शितानाहुस्तन्मतनिषेधः कृतः, संविनिष्ठा हि विपयव्यवस्थितयो, न च रूपाद्युत्कलितरूपं कदाचित्केनचिद् द्रव्यमवगतमवगम्यते वा, अथ तद्विवर्त एव रूपादयो न तु तात्त्विकाः केचन तद्भेदेन सन्ति, नन्वेवंरूपादिविवत्तॊ द्रव्यमित्यपिकिन कल्प्यते?, अथ तथैव प्रतीतेः, एवं सति प्रतीतिरुभयत्र साधारणेत्युभयमुभयात्मकमस्तु, लक्ष्यतेऽनेनेति लक्षणं 'पर्यवाणां' वक्ष्यमाणरूपाणां 'तु:' विशेषणे 'उभयोः' द्वयोः प्राकृतत्वाद् द्रव्यगुणायोराश्रिताः, भवे'त्ति भवेयुः' स्युः । अनेन च य एवमाहुः-यदाद्यन्तयोरसत् मध्येऽपि तत्तथैव, यथा मरीचिकादौ जलादि, न सन्ति च कुशूलकपालाद्यवस्थयोर्घटादिपर्यायाः, ततो द्रव्यमेवादिमध्यान्तेषु सत्, पर्याया: युनरसत्यैराकाशकेशादिभिः सदृशा अपि भ्रान्तैः सत्यतया लक्ष्यन्ते, यथोक्तम्
"आदावन्ते च यन्नास्ति, मध्येऽपि हि न तत्तथा ।
वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः॥" तेऽपाकृताः, तथाहि-आद्यन्तयोरसत्त्वेनमध्येऽप्यसत्त्वं साधयतामिदमाकूतं-यत्क्वचिदसत्तत्सर्वस्मित्रिसदिति, ततश्च मुद्रव्येऽप्यद्रव्यस्यासत्त्वात्सर्वस्मित्रप्यसत्त्वप्रसङ्गः, अथेष्टमेवैतत्, सत्तामात्रस्यैव तत्त्वत इष्टत्वात्, उक्तं हि-"सर्वमेकं सदविशेषात्" नन्वेवमभावे भावभावाद्भावस्यापि सर्वत्राभावप्रसङ्गः, तस्माद्बाधकप्रत्ययोदय एवासत्त्वे निबन्धनमिति न क्वचिदसत्त्व तस्यावश्यंभावः, ततो द्रव्यवत्पर्यायाणामप्यबाधितबोधविषयत्वे सत्त्वमस्तु, तथा गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षप्रतीता एव कियत्कालभाविनः, प्रतिसमयभाविनस्तु पुराणत्वाद्यन्यथानुपपत्तेरनुमानतोऽवसीयन्ते, ततश्च द्रव्यगुणपर्यायात्मकमेकं शबलमणिवच्चित्रपतङ्गादिवद्वा वस्त्विति स्थितमिति सूत्रार्थः ।। आह-गृह्णीमो ‘गुणानामाश्रयो द्रव्य मिति द्रव्यलक्षणं, तच्चैवंलक्षणं द्रव्यं किमेकमेवोत तस्य भेदो अपि सन्तीत्याहमू.(१०८२) धम्मो अधम्मो आगासं, कालो पुग्गलजंतवो।
एस लोगुत्ति पन्नत्तो, जिनेहिं वरदंसिहि ॥ व.'धर्म' इति धर्मास्तिकायः 'अधर्म' इत्यधर्मास्तिकायः 'आकाश' मित्याकाशस्तिकाय: 'कालः' अद्धासमयात्मकः 'पुद्गलजन्तव' इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org