________________
११६
उत्तराध्ययन- मूलसूत्रम् - २ - २६ / १०२३ रतिपि चउरो भाए, भिक्खू कुज्जा वियक्खणो । तओ उत्तरगुणे कुज्जा राई भो (भा) गेसु चउसुवि ॥ पढम पोरिसि सज्झायं बीयं झाणं झियायई । तइयाए निद्दमुक्खं तु चउत्थी भुज्जोवि सज्झायं ॥
मू. ( १०२४ )
"
वृ. सूत्रद्वयं स्पष्टमेव, नवरं रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः । द्वितीयां पौरुष 'ध्यायति ध्यानं' सूक्ष्मसूत्रार्थलक्षणं क्षितिवलयद्वीपसागरभवनादि वा 'झियाए 'त्ति 'ध्यायेत्' चिन्तयेत्, तृतीयायां निद्राया मोक्षः- पूर्वनिरुद्धाया मुत्कलना निद्रामोक्षः स्वाप इत्यर्थस्तं, कुर्यादिति सर्वत्र प्रक्रमाद्योज्यं, वृषभापेक्षं चैतत्, सामस्त्येन तु प्रथमचरमप्रहरजागरणमेव,
तथा चागमः -
मू. (१०२३)
" सव्वेसि पढमजामे दोत्रि उ वसभाण आदिमा जामा । ततितो होइ गुरूणं चउत्थओ होइ सव्वेसिं ॥ "
शयनविधिश्चायम्- बहुपरिपुन्नाए पोरिसीए गुरुसगासं गंतूणं भणति इच्छामि खमासमणो वंदिउं जावणिज्जाए, निसीहियाए मत्थएण वंदामि, बहुपडिपुन्ना पोरिसी अनुजाणह राइसंथार, ताहे पढमं काइयाभूमिं वच्वंति, ताहे जत्थ संथारभूमि तत्थ वच्वंति, ताहे उवहिंमी उवओगं करिता यमज्जेत्ता उ उवहीए दोरयं छोडंति, ताहे संधारपट्टयं उत्तरपट्टयं च पडिलेहित्ता दोवि एत्थ लाइत्ता ऊरंमिठवंति, ताहे संधारभूमि पमज्जंति, ताहे संधारयं अच्छुरंति सउत्तरपट्टयं, तत्थ (य) लग्गा मुहपोत्तियाए उवरिमं कार्य पमज्जतित्ति हिट्ठिल्लं रयहरणेणं, कप्पे य वामपासे ठवेंति, पुनो संथारयं चडेत्ता- जेट्टज्जाईण पुरओ चिट्टंताणं- अनुजाणेज्जह, पुणो सामाईयं तिन्नि वारे कड्डिऊण सुयंति त्ति । सुप्तानां चायं विधिः
"
'अनुजाणह संथारं बाहुवहाणेण वामपासेणं । पायपसारणि कुक्कुडि अतरंतो पमज्जए भूमि ॥१॥ संकोए संडासं उव्वत्तंती य कायपडिलेहा । दव्वादीउवओगं उस्सासनिरुंभणालोयं ॥ २॥
मू. ( १०२५ )
इति सूत्रद्वयार्थः । सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाहजं नेइ जया रत्तिं नक्खत्तं तंमि नहचउब्भाए । संपत्ते विरमिज्जा सज्झाय पओसकालमि ॥ तम्मेव य नक्खत्ते गयणं चउभागसावसेसंमि । वेरत्तियंपि कालं पडिलेहित्ता मुनी कुज्जा ।।
मू. ( १०२६ )
वृ. यत् 'नयति' प्रापयति परिसमाप्तिमिति गम्यते यदा रात्रिं नक्षत्रं तस्मिन्नभश्चतुर्भागे संप्राप्ते 'विरमेत्' निवर्तेत 'सज्झाय'त्ति स्वाध्यायात्, 'प्रदोषकाले' रजनीमुखसमये प्रारब्धादिति शेष:, तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते, क्वेत्याह- 'गगण' त्ति गगने, कीदृशि ? - चतुर्भागेन गम्येन सावशेषं-सोद्धरितं चतुर्भागसावशेषं तस्मिन् 'वैरात्रिकं' तृतीयम्, अपिशब्दान्निजनिजसमये प्रादोषीकादिकं च कालं 'पडिलेहित्त' ति प्रत्युपेक्ष्य प्रतिजागर्य मुनिः 'कुर्यात् करोतेः सर्वधात्वर्थत्वाद् गृह्णीयात्, इह च काक्वोपलक्षणद्वारेण प्रथमादिषु नभश्चतुर्थभागेषु संप्राप्ते नेतरि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org