________________
१०८
उत्तराध्ययन-मूलसूत्रम्-२-२५/१००३ दो वि आवडिया कुड्डे, जो उल्लो सोऽत्थ लग्गई ।। मू. (१००४) एवं लग्गति दुम्मेहा, जे नरा कामलालसा।
विरत्ता उन लगति, जहा से सुक्कगोलए। ७. 'न'त्यादि सूत्रचतुष्टयम, 'न कार्य' न प्रयोजनं मम 'भिक्खेणं'ति भिक्षया समुदानेन, किन्तु क्षिप्रं' शीघ्रं 'निष्काम' प्रव्रज 'द्विज ! ब्राह्मण !, भवन्निष्क्रमणेनैव मम कार्यमिति भावः, किमेवमुपदिश्यते इत्याह-'मा भ्रमी:' मा पर्यटी:, आर्षत्वाच्च सूत्रे लुटः प्रयोगः, यदिवा मा भ्रमीष्यसीत्यपि न दुष्टं, यतो माङिलुडुक्तोऽयं तु मा, भयानिइहलोकभयादीनि आवर्ता यस्मिन्त्रसौ भयावतस्तत्र 'घोरे' रौद्रे, पठ्यते च-'भवावत्ते दोहे'त्ति, अत्र च भवामनुष्यभवादयः, अन्यत्प्राग्वत, 'दीर्घ' आयते 'संसारसागरे' भवसमुद्रे, अनेन च विपर्ययदोप उक्तः । एतदेव समर्थयितुमाह
'उपलेप:' कर्मोपचयरूपो भवति भोगेसु' शब्दादिपुभुज्यमानेप्विति गम्यते, भोगीशब्दादिभोगवान्न तथाऽभोगी 'न' नैव उपलिप्यते' कर्मणोपदिह्यते, ततश्च भोगी भ्रमति संसारे अभोगी विप्रमुच्यते, मुक्तो भवतीत्यर्थः, इह च गृहस्थभावे भोगित्वं निष्क्रमणे तु तदभाव इति गृहिभावस्य सदोषत्वान्निष्क्रमणमेव युक्तमित्युक्तं भवति । यथा भोगेषूपलेपस्तदभावे चान्यथात्वं तथा दृष्टान्तद्वारेण दर्शयितुमाह-'उल्लो 'त्ति आर्द्रः शुष्कश्चअनार्दो द्वावुभो 'छुढ'त्ति क्षिप्तो 'गोलको' पिण्डको मृत्तिकामयौ, द्वावपि 'आपतितौ' प्राप्तौ 'कुड्ये' भित्तौ, ततः किमित्याह-य आर्द्रः सो 'अत्रे'त्यनयोर्मध्ये 'लगति' श्लिष्यति प्रक्रमात्कुड्ये।
दाप्टान्तिकयोजनामाह-एवं लगन्ति प्रस्तावात्कर्मणा 'दुर्मेधसः' दुर्बुद्धयो ये नराः 'कामलालसाः' विषयलम्पटाः, विरक्तास्तुशब्दस्य पुनरर्थत्वात्कामभोगपराङ्मुखाः पुनर्न लगन्ति, उत्तरत्र तुशब्दस्य भिन्नक्रमात्वेनैवकारार्थतया च नैव कर्मणा संश्लिष्यन्ते यथा शुष्को गोलकः, इह चान्वयानन्तरं व्यतिरेकः सुखेनैव बुध्यत इति तमुक्त्वा प्रथममुत्क्षिप्तस्यापि दृष्टान्तस्य पश्चादभिधानमिति सूत्रचतुष्टयार्थः ।। यदित्थं प्रज्ञापितोऽसौ कृतवांस्तदाहमू.(१००५) एवं से विजयघोसे, जयघोसस्स अंतिए।
अनगारस्स निक्खंतो, धम्मंसुच्चा अनुत्तरं ।। वृ.'एवम्' उक्तप्रकारेण स विजयघोषो ब्राह्मणो जयघोषस्य अन्तिके' समीपे 'अनगारस्य' यतेः 'निष्क्रान्तः' प्रव्रजितः 'धर्मम्' अहिंसादि 'श्रुत्वा' आकर्ण्य 'अनुत्तरं' प्रधान, पठ्यते च-'सोच्चा न केवलं'ति, तत्र च 'केवलं' विशुद्धमिति सूत्रार्थः ।। सम्प्रत्यध्ययनार्थमुपसंहरन्ननयोर्निष्क्रमणफलमाहमू.(१००६) खविता पुव्वकम्माई, संजमेण तवेण य।
जयघोसविजयघोसा, सिद्धिं पत्ता अनुत्तरं तिबेमि।। वृ.सुगममेव ।। सकलाध्ययनतात्पर्यार्थमुपदर्शयन् सूत्रस्पर्शिकनियुक्तिमाह नियुक्तिकृत्नि.[ ४७५] अह एगराइआए पडिमाए सो मुनि विहरमानो।
वसुहं दूइज्जतो पत्तो वाणारसिं नयरिं ।।। नि.[ ४७६ ] सो उज्जाणनिसन्नो मासक्खमनेण खेइयसरीरो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org