________________
अध्ययनं - २५ [ नि. ४७४]
मू. ( ९६४ )
इंदियग्गमनिगाही, मग्गगामी महामुनी । गामानुगामं रीयंते, पत्तो वाणारसिं पुरिं ।। वाणारसीइ बहिया, उज्जानंमि मनोरमे । फासुएसिज्जसंथारे, तत्थ वासमुवागए ॥
मू. ( ९६५ )
वृ. सूत्रत्रयं प्रायः प्रतीतार्थमेव, नवरं ब्राह्मणकुलसंभूत इत्यन्वयाभिधानं, ब्राह्मणकुलसंभूतोऽपि जननीजात्यन्यथात्वे ब्राह्मणो न स्यादत आह-विप्रः, 'जायाइ' त्ति अवश्यं यायजीति यायाजी, क्वेत्याह- यमाः - प्राणातिपातविरत्यादिरूपाः पञ्च त एव यज्ञो भावपूजात्मकत्वाद्विवक्षितपूजां प्रति यमयज्ञस्तस्मिन् विषयसप्तमीयं गार्हस्थ्यापेक्षया वैतद्वयाख्यायते, तत्र च विप्रो विप्राचारनिरतत्वेन, संभवति हि कश्चित्तत्कुलोत्पन्नोऽप्यन्यथेति विशेषणं, तथा यम इव प्राण्युपसंहारकारितया यमः स चासौ यज्ञश्च यमयज्ञः अर्थाद् द्रव्ययज्ञस्तस्मिन् । इन्द्रियग्रामं - स्पर्शनादिकसमूहं निगृह्णाति-स्वस्वविषयविनिवर्त्तनेन नियमयतीत्येवंशील इन्द्रियग्रामनिग्राही, अत एव 'मार्गगामी' मुक्तिपथयायी 'रीयंति'त्ति रीयमानो विहरन् ।
९९
-
' वाणारसीय वहिय'त्ति वानारस्या बहिरिति- बहिर्भागे यदुद्यानम्उपवनं तस्मिन्निति सूत्रत्रयार्थः ॥ तदा च तत्पुरियद्वर्त्तते यच्चासौ विधत्ते तदाह
मू. (९६६ )
अह तेनेव कालेनं, पुरीए तत्थ माहणे । विजयघोसत्ति नामेणं, जन्नं जयइ वेयवी ॥ अह से तत्थ अनगारे, मासक्खमनपारणे । विजयघोसस्स जन्नमि, भिक्खमट्ठा उवट्ठिए ॥
मू. (९६७ )
वृ. 'अथे' तिच वक्तव्यतान्तरोपन्यासे 'तेनेव कालेनं 'ति सुब्व्यत्ययात्तस्मिन्नेव काले यत्रासौ वानारसीमाजगाम, 'वेयवी 'ति वेदवित् । 'अथे 'ति प्रस्तुतोपन्यासे 'स' जयघोष: 'तत्रे' ति यागे 'भिक्खस्सऽ 'त्ति भैक्ष्यस्यार्थे- भैक्ष्यनिमित्तं, शेषं सुगममिति सूत्रद्वयावयवार्थः ॥ तत्र च भिक्षार्थमुपस्थिते यदसौ याजकः कृतवांस्तदाहसमुवट्ठियं तहिं संत, जायगो पडिसेहए।
मू. ( ९६८ )
न हु दाहामि ते भिक्ख, भिक्खू ! जायाहि अन्नओ ॥
वृ. 'समुपस्थितं' भिक्षार्थमागतं 'याजकः' यष्टा स एव विजयघोषनामा ब्राह्मण: 'प्रतिषेधति' निराकुरुते यथा 'न हु' नैव दास्यामि 'ते' तुभ्यं भिक्षां 'जायाहि'त्ति याचस्व 'अन्यतः ' अस्मद्यतिरिक्तात् । किमित्येवमत आह
मू. (९६९)
Jain Education International
जे य वेयविइड विप्पा, जन्नमट्ठा य जे दिया।
जोइसंगविई जे य, जे य धम्माण पारगा ॥
वृ. 'जे विप्पा' इत्यादि, विप्रा जातितः 'जण्णट्ठा य'त्ति 'यज्ञार्था' यज्ञाप्रयोजना ये तत्रैव व्याप्रियन्ते ये ‘द्विजाः' संस्कारापेक्षया द्वितीयजन्मानो ज्योतिषं- ज्योतिःशास्त्रमङ्गानि च विदन्ति ये ते ज्योतिषाङ्गविदः, अत्र च ज्योतिषस्योपादानं प्राधान्यख्यापकम्, अन्यथा हि शिक्षा १ कल्पो २ व्याकरणं ३ निरुक्तं ४ छन्दोविचितः ५ ज्योतिषमिति ६ षडङ्गानीत्यङ्गग्रहणेनैव तद्गृहीतमिति, धर्माणामुपलक्षणत्वाद् धर्मशास्त्राणां 'पारगाः' पर्यन्तगामिनः,
For Private & Personal Use Only
www.jainelibrary.org