SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ८८ उत्तराध्ययन- मूलसूत्रम् - २-२३/९३० विशेषेण विशिष्टमिति प्रक्रमः, निर्वान्ति- कर्मानलविध्यापनाच्छीतीभवन्त्यस्मिन् जन्तव इति निर्वाणं, इतिशब्दः स्वरूपपरामर्शको, यत्रापि नास्ति तत्राप्यध्याहर्त्तव्यः, तत उच्यत इत्यध्याहृत्य निर्वाणमितिशब्देन यदुच्यत इत्यादिभावना विधेया, 'अबाह'न्ति अविद्यमानशारीरमानसपीइमिति प्राग्वत् । सिद्धयति-निष्ठितार्था भवन्त्यस्यां जन्तव इति सिद्धिः 'लोकाग्रं' सर्वजगदुपरिवत्ति 'एवे 'ति परणे 'च: ' समुच्चये क्षेमं शिवमनाबाधमिति च प्राग्वत्, तथा यत् 'तरन्ति' प्लवन्ते गच्छन्तीत्यर्थः, तत्स्थानमुक्तमिति प्रक्रमः, सविशेषणस्य पृष्टत्वात्तदेव विशिनष्टि- 'सासयंवासं 'ति बिन्दोरलाक्षणिकत्वात् ‘शाश्वतवासं' नित्यावस्थिति ध्रुवमितियावत्, लोकाग्रे दुरारोहपुमलक्षणत्वाज्जराद्यभाववत्, प्रसङ्गतस्तन्माहात्म्यमाह - यत्संप्राप्ता न शोचन्ते, कीदृशाः सन्त इत्याहभवा-नारकादयस्तेपामोघः-पुनः पुनर्भवरूपप्रवाहस्तस्यान्तकराः - पर्यन्तविधायिनो भवौधान्तकराः 'मुनि'त्ति मुनय इति सूत्रपञ्चकार्थः ॥ मू. (९३१ ) साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । नमो ते संसयाईय!, सव्वसुत्तमहोयही ॥ वृ. नवरं नमोऽस्त्विति शेषः 'ते' तुभ्यमिति 'संशयातीत ! ' सन्देहातिक्रान्त ! सर्वसूत्राणां महोदधिरिव महोदधिः सामास्त्येन तदा धारतया तत्संबोधनं सर्वसूत्रमहोदधे!, अनेनोपबृंहणागर्भं स्तवनमाह। प्रश्नोपसंहारमाह निर्युक्तिकृत्- 'एवं बारससु क्कमो 'त्ति, एवमित्युक्तरूपो द्वादशसु प्रतिपादितप्रश्नेषु 'प्रक्रमः ' परिपाटी, किमुक्तं भवति ? - अनेनैव क्रमेणामी केशिना कृताः, तथाहि धर्मार्थत्वात्सर्वानुष्ठानस्य शिक्षाव्रतरूपत्वाच्चास्य प्रथमतस्तेषां प्रश्नः, • ततो लिङ्गपाल्यान्येतानीति लिङ्गस्य, सत्यपि च लिङ्गे नात्मादिशत्रुजयं विनाऽसौ सुखेन पालयितुं शक्यत इति शत्रुजयस्य, तेष्वपि कषायः एवोत्कटास्तदात्मकौ च रागद्वेषाविति पाशावकर्त्तनस्य, तत्रापि लोभ एव दुरन्त इति लतोच्छेदस्य, तदुच्छेदोऽपि न कषायनिर्वापणं विनेत्यग्निनिर्वापणस्य, तद्विध्यापनमपि न मनस्यनिगृहीत इति दुष्टाश्वनिग्रहस्य तन्निग्रहेऽपि च न सम्यक्पथपरिज्ञानं विनाऽभिमतपदप्राप्तिरिति तस्य सम्यक्पथश्च जिनप्रणीतधर्म एवेति तस्यैव सन्मार्गत्वख्यापनाय महाश्रोतोनिवारणस्य ततस्तत्रैव दाढर्योत्पादनार्थं संसारपारगमनस्य अथ यद्ययमेव सन्मार्गस्तत्किमित्यन्येऽपि न वदन्तीत्याशङ्कयान्येपामज्ञत्वख्यापनार्थं तमोविघटनस्य, एवमपि किमनेन सन्मार्गेण स्थानमवाप्यमित्याशङ्कासम्भवे स्थानोपसम्पद इति गाथापदतात्पर्यार्थः ॥ पुनस्तद्वक्तव्यतामेव सूत्रकृदाहमू. (९३२) एवं तु संसए छित्रे, केसी घोरपरक्कमे । अभिवंदित्ता सिरसा, गोयमं तु महायसं ॥ पंचमहव्वयं धम्म, पडिवज्जइ भावओ । पुरिमस्स पच्छिमंमी, मग्गे तत्थ सुहावहे ॥ मू. (९३३) वृ. 'एवं तु 'त्ति अमुनैव प्रकारेण 'संशये' उक्तरूपे 'छिन्ने' अपनीते, उभयत्र जातावेकवचनं, शेषं स्पष्टं, नवरं 'भावतः' इत्यभिप्रायतः, पूर्वं हि चतुर्याम एव धमः प्रतिपत्तव्य इत्यभिप्राय आसीत्, अधुना तु पञ्चयाम इति, क्व पुनरयं पञ्चयामो धर्म इत्याह- 'पुरिमस्स' त्ति पूर्वस्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy