________________
अध्ययनं-२३,[ नि. ४५८ ]
सो करिस्सइ उज्जोयं, सव्वलोगमि पाणिणं। मू.( ९२३) भानू अ इति के वुत्ते?, केसी गोयममब्बवी।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी ।। मू. ( ९२४) उग्गओखीणसंसारो, सवयू जिनभक्खरो।
सो करिस्सइ उज्जोयं, सबलोगमि पाणिणं ।। वृ.सूत्रचतुष्टयं, अन्धमिवान्धं चक्षुःप्रवृत्तिनिवर्तकत्वेनार्थात् जनं करोतीत्यन्धकारस्तस्मिन् 'तमसि' प्रतीते 'घोरे' भयानके तिष्ठन्ति प्राणीनो बहवः, क: करिष्यत्युद्घोतं 'सर्वलोके' समस्तजगति प्राणिनां?, न कञ्चित्तादृशं निर्धारयाम इति भावः।।
गौतम आह-'उद्गत:' उदितः 'विमलः' निर्मलः भानुः' आदित्याः 'सव्वलोगपहंकरे'त्ति सर्वलोकप्रभाकरः-सकलजगत्प्रकाशविधाता, 'भाण य'त्ति भानुः क उक्तो य उद्योतं करिष्यतीतिप्रक्रमः, “उद्गतः' उदयं प्राप्तः क्षीणसंसार:' अपगतभवभ्रमणः सर्वज्ञः 'जिनभास्करः' अर्हदादित्यः 'उद्घोतं' समस्तवस्तुप्रकाशनं, तच्च तमोविघट्टनादेवेति तदेवानेन भङ्गयोक्तं, शेषं स्पष्टमिति सूत्रचतुष्टार्थः ।। मू.( ९२५) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।
अन्नोऽवि संसओ मज्झं, तं मे कइसु गोयमा। .. वृ. साहुसूत्रं तथैव । स्थानमेवोपसंपद्यते-प्राप्यत इति स्थानोपसम्पत्-प्राप्यं स्थानमिति द्वादशं द्वारमङ्गीकृत्याहमू. (९२६) सारीरमानसे दुक्खे, बज्झमानान पाणिणं।
खेमं सिवं अनाबाह, ठाणं किं मन्नसी? मुनी! ।। मू.( ९२७) अत्थि एगंधुवं ठाणं, लोगग्गमि दुरारुह।
जत्थ नत्थि जरा मच्च, वाहिणो वेयणा तहा।। मू. (९२८) ठाणे अइइ के वुत्ते?, केसी गोयममब्बवी।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी ।। मू.(९२९) निव्वाणंति, अबाहंति, सिद्धी लोगग्गमेव य।
खेम सिवं अनाबाहं, जंतरंति महेसिणो ।। मू. (९३०) तं ठाणं सासर्यवासं, लोगग्गंमि दुरारुह, ।
जं संपत्ता न सोयंति, भवोहंतकरा मुनी! ।। वृ. सूत्राणी पञ्च प्रतीतान्येव, नवरं सारीरमानसे दुक्खे'त्ति आर्षत्वाच्छरीरमानसैर्दुःखैः 'बज्झमानानं' बाध्यमानानां पीड्यमानानां, पठ्यते च-'पञ्चमानानं ति पच्यमानानामिव पच्यमानानामत्याकुलीक्रियमानतया 'प्राणिनां' जीवानां क्षेमं व्याधिरहिततया शिवं सर्वोपद्रवाभावतः अनाबाधं स्वाभाविकबाधापगमतस्तिष्ठन्त्यस्मिआह-अस्ति ‘एकम्' अद्वितीयं 'दुरारुह"ति दुःखेनारुद्यते-अध्यास्यत इति दुरारोह, दुरापेणैव सम्यग्दर्शनादित्रयेण तदवाप्यत इतिकृत्वा, वेदनाश्चेह शारीरमानसदुःखानुभवात्मिकाः, ततश्चास्य व्याध्यभावेन क्षेमत्वं जरामरणाभावेन शिवत्वं, वेदनाऽभावेनानाबाधकत्वमुक्तमिति यथायोगं भावनीयं, स्थानं किमुक्तं?-ध्रुवादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org