________________
७८
उत्तराध्ययन-मूलसूत्रम्-२-२३/८६८ शिक्षापदानि वा--प्राणिवधविरमणादीनि, सत्सु हि तेषु शेषाऽपि शिक्षा शिष्योपदेशात्मिका संभवतीति । एतदधिकृत्याह सूत्रकृत्मू. (८६९) चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ।
देसिओ वद्धमाणेणं, पासेण य महामुनी ।। मू.(८७०) एगकज्जपवनाणं, विसेसे किं नु कारणे? |
धम्मे दुविहे मेहावी, कह विष्पच्चओ न ते? ।। वृ. 'चतुर्यामः' हिंसाऽनृतस्तेयपरिग्रहोपरमात्मकव्रतचतुष्टयरूपः ‘पञ्चशिक्षितः स एव मैथुनविरमणात्मकपञ्चमव्रतसहितः । इत्थं च 'धर्मे' साधुधर्मे 'द्विविधे' द्विभेदे हे 'मेधाविन्!' विशिष्टावधारणशक्त्यन्वित! कथञ्चित् (कथं विप्र) प्रत्ययः' अनाश्वासो न 'ते' तव?, तुल्ये हि सर्वज्ञत्वे किंकृतोऽसौ मतभेद इत्यभिप्रायः, शेषं प्रकटार्थमेवेति सूत्रद्वयार्थः ।
एव केशिनोक्तेमू. (८७१) तओ केसि बुवंतं तु, गोयमो इणमब्बवी।
पन्ना समिक्खए धम्मतत्तं तत्तविनिच्छियं ।। मू.(८७२) पुरिमा उज्जुजड्डा उ, वक्कजड्डा य पच्छिमा।
मज्झिमा उज्जुपन्ना उ, तेन धम्मे दुहा कए। मू.(८७३) पुरिमाणं दुब्बिसुज्झो उ, चरिमाणं दुरनुपालाओ।
कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ।। वृ. 'ततः' तदनन्तरं केशि ब्रुवन्ते तुः पूरणेऽवधारणे वा ततो ब्रुवन्तमेव जल्पादनुपरतमेव, अनेनादरातिशयमासन्नलब्धप्रतिभतां च गौतमस्याह । किं तदव्रवीदित्याह-'प्रज्ञा' बुद्धि: 'समीक्षते' सम्यक् पश्यति, किं तदित्याह-'धम्मतत्तं'ति बिन्दुरलाक्षणिकस्ततः 'धर्मतत्त्वं' धर्मपरमार्थं तत्त्वानां-जीवादीनां विनिश्चयो-विशिष्टनिर्णयात्मको यस्मिस्तत्तथा, इदमुक्तं भवति-न वाक्य श्रवणमात्रादेव वाक्यार्थनिणर्यो भवति, किन्तु प्रज्ञावशात्, ततः 'पुरमि'त्ति 'पूर्वे' प्रथमतीर्थकृत्साधवः 'उज्जुजड्डे'ति ऋजवश्च प्राञ्जलतया जडाश्च तत एव दुष्प्रतिपाद्यतया ऋजुजडाः, तुरिति यस्मात् 'वक्कजड्डा य'त्ति, वक्राश्च वक्रबोधतया जडाश्च तत एव स्वकानेककुविकल्पो विवक्षितार्थप्रतिपत्त्यक्षमतया वक्रजडा: 'च:' समुच्चये 'पश्चिमाः' पश्चिमतीर्थकृद्यतयः 'मध्यमास्तु' मध्यमतीर्थकृत्सम्बन्धितपस्विनः, ऋजुप्रज्ञाः' ऋजवश्च ते प्रकण जानन्तीति प्रज्ञाश्च सुखेनैव विवक्षितमर्थं ग्राहयितुं शक्यन्त इति ऋजुप्रज्ञाः, तेन हेतुना धर्मो द्विभेदः 'कृतः' विहितः, एककार्यप्रतिपन्नत्वेऽपीति प्रक्रमः। __ यदि नाम पूर्वादीनामेवंविधत्वं तथाऽपि कथमेतद् द्वैविध्यमित्याह-'पुरिमाणं'ति पूर्वेषां दुःखेन विशोध्यो विशोधयितुं-निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति संबध्यते, ते ह्यतिऋजुतया गुरुभिरनुशिष्यमाणा अपि न तदनुशासनं स्वप्रज्ञाऽपराधाद्यथावत्प्रतिपत्तुं क्षमन्त इति तेषामसौ दुर्विशोध्य उच्यते, तुशब्द उत्तरेभ्यो विशेष द्योतयति, 'चरमाणां' चरमतीर्थकृत्तपस्विनां दुःखेनानुपाल्यत इति दुरनुपालः स एव दुरनुपालकः ‘कल्प:' यतिक्रियाकलापः, ते हि वक्रत्वेन कु विकल्पाकुलितचित्ततया कथञ्चिज्जानाना अपि न यथावदनुष्ठातुमीशते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org