________________
७६
उत्तराध्ययन- मूलसूत्रम् - २-२३/८५९ चकारस्य प्रश्लेपाद् यश्चायं पञ्च शिक्षा: -- प्राणातिपातादिविरमणोपदेशात्मिका: संजाता यस्मिनसौ पञ्चशिक्षितः, तारकादेराकृतिभणत्वादितच्, यद्वा पञ्च शिक्षितानि - उक्तशिक्षारूपाणि यस्मिन्नसौ पञ्चशिक्षितो वर्द्धमानेन देशित इति योग:, 'महामुनि 'त्ति सुब्व्यत्ययान्महामुनिनेत्युभयोरपि विशेषणं महामुनीना वा अनयोविंशषे किं नु कारणमित्युत्तरेण सम्बन्धः, अनेन धर्मविषयः संशयो व्यक्तीकृतः ।
सम्प्रत्याचारधर्मप्रणिधिविषयं तमेवाभिव्यनक्ति- 'अचेलकश्च' उक्तन्यायेनाविद्यमानचेलकः कुत्सितचेलको वा यो धर्मो वर्धमानेन देशित इत्यपेक्ष्यते, तथा 'जो इमो 'त्ति पूर्ववद्, यश्चायं सान्तराणि वर्द्धमानस्वामिसत्कयतिवस्त्रापेक्षया कस्यचित्कदाचिन्मानवर्णविशेषतो विशेषितानि उत्तराणि च - महाधनमूल्यतया प्रधानानि प्रक्रमाद्वस्त्राणि यस्मिन्नसौ सान्तरोत्तरो धर्मः पार्श्वेन देशित इतीहापेक्ष्यते, एकं कार्यं मुक्तिलक्षणं फलं तदर्थं प्रपन्नौ - प्रवृत्तावेककार्यप्रपन्नौ तयोः प्रक्रमात्पार्श्ववर्द्धमानयोः, उभावपि हि मुक्त्यर्थमेव प्रवृत्तावितिकृत्वा, 'विशेषे' उक्तरूपे 'किमि 'ति संशये 'नु' वितर्के 'कारणं' हेतुः ?, कारणभेदेन हि कार्यभेदसम्भव इति भावः, शेषं स्पष्टमिति सूत्रपञ्चकार्थः ॥
एवं च विनेयचिन्तोत्पत्तौ यत्केशिगौतमावका तदाह
मू. ( ८६०)
मू. ( ८६१ )
अह ते तत्थ सीसाणं, विनाय पवियक्कियं । समागमे कथमई, उभओ केसिगोयमा ॥ गोअमो पडिरुवन्नू, सीससंघसमाउले । जिद्वं कुलमविक्खतो, हिंदुयं वनमागओ ॥ केसी कुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्मं संपडिवज्जई ॥ पलाल फासूअं तत्थ, पचमं फुसुतिनानि य । गोयमस्स निसिज्जाए, ख्रिप्पं संपणामए ॥
मू. (८६२)
मू. (८६३)
वृ. 'अथे' त्यनन्तरं 'ते' इति तौ प्रक्रान्तौ 'तत्रे 'ति श्रावस्त्यां प्रकर्षेण वितर्कितं विकल्पितं प्रवितार्कितं ' समागमे' मीलके 'कृतमती' विहिताभिप्रायावभूतामिति शेषः, केसिगोयमे' त्ति केशिगौतम, ततश्च 'पडिरूवन्नु' त्ति प्रतिरूपविनयो - यथोचित्तप्रतिपत्तिरूपस्तं जानातीति प्रतिरूपज्ञ: 'ज्येष्ठं' प्रथमभावितया 'कुलं' पार्श्वनाथसन्तानम् 'अपेक्षमाणः ' विगणयन् 'प्रतिरूपाम्' उचितां 'प्रतिपत्तिम्' अभ्यागतकर्त्तव्यरूपां 'सम्यग् ' अवैपरीत्येन समिति-सांमुख्येन प्रतिपद्यते - अङ्गीकरोति संप्रतिपद्यते ।
प्रतिपत्तिमेवाह - 'पलालं' प्रतीतं 'प्रासुकं' विगतजीवं 'तत्रे' ति तस्मिस्तिन्दुकोद्याने 'पंचमं'त्ति वचनव्यत्ययात् 'पञ्चमानि' पञ्चसङ्ख्यापूरणानि, कानीत्याह-कुशतृणानि, चशब्दादन्यान्यपि साधुयोग्यतृणानि, पञ्चमत्वं चैषां पलालभेदापेक्षया, तस्य हि शाल्य्दिसम्बन्धिभेदापेक्षया चत्वारो भेदाः, यत उक्तम्
"तिनपनगं पुन भणियं, जिनेहिं कम्मट्ठगंठिमहणेहिं । साली वीही कोद्दवरालगरन्ने तिनाई च ॥'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org