________________
अध्ययनं-२२,[नि. ४४६] 'सा' राजीमती 'भ्रमरसन्निभान्' कृष्णतया आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणक:-कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् स्वयम्' आत्मनैव 'लुञ्चति' अपनयति, भगवदनुज्ञयेति गम्यते, 'केशान्' कचान् ‘धिइमंति'त्ति धृतिमति व्यवसितेति-अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः ॥ तत्प्रव्रज्याप्रतिपत्तौ चमू.(८२७) वासुदवो अणं भणइ, लुत्तकेसि जिइंदियं।
संसारसागरं घोरं, तर कन्ने ! लहुं लहं। वृ. स्पष्टमेव, नवरं तर' इत्युल्लङ्घय: आशीर्वचनत्वादयमप्यशिषि लोट्, 'लघु लघु' त्वरितं त्वरितं, संभ्रमे द्विर्वचनमिति सूत्रार्थः ।। तदुत्तरवक्तव्यतामाहमू. (८२८) सा पव्वईया संती, पव्वावेसी तहिं बह।
सयनं परियणं चेव, सीलवंता बहुस्सुआ। मू.(८२९) गिरि रेवययं जंती, वासेनोल्ला उ अंतरा।
वासंते अंधयारंमि, अंतो लयणस्स साठिया ।। मू. (८३०) चीवराणि विसारंती, जहा जायत्ति पासिया।
रहनेमि भग्गचित्तो, पच्छा दिट्ठो अतीइवि ।। मू. (८३१) भीया य सा तहिं दर्दू, एगते संजयं तयं ।
बाहाहि काउंसंगुर्फ, वेवमाणी निसीयई। वृ. सूत्रचतुष्टयं स्पष्टमेव, नवरं'सा' इति राजीमती पव्वावेसि'त्ति प्राविव्रजत्-प्रव्राजितवती 'तहि'ति तस्यां द्वारकापुरि। रैवतकम्' उज्जयन्तं यान्ती' गच्छन्ति, भगवद्वन्दनार्थमिति गम्यते, 'वर्षेण' वृष्टया उल्ल'त्ति आर्द्रा स्तिमितसकलचीवरेतियावत्, अन्तरे' त्यन्तरालेऽर्द्धपथइत्यर्थः, 'वासंति'त्ति वर्षति, नीरद इति गम्यते, 'अन्धकारे' अपगतप्रकाशे, कस्मिन्?-'अन्तः' मध्ये, उक्तं हि-'अन्तःशब्दोऽधिकरणप्रधानं मध्यमाह'लयनमिह गुहा तस्यां 'सा' राजीमती 'स्थिता' इत्यासिता, असंयमभीरुतयेति गम्यते, तत्र च'चीवराणि' सङ्घाट्यादिवस्त्राणि 'विसारयन्ती' विस्तारयन्ती अत एव 'यथाजाता' अनाच्छादितशरीरतया जन्मावस्थोपमा 'इती' त्येवंरूपा 'पासिय' त्ति दृष्ट्व(ष्टा), तदर्शनाच्च 'रथनेमिः' रथनेमिनामा मुनिः भग्नचित्तः भग्नपरिणाम: सन् प्रक्रमात्संयमं प्रति, स हि तामुदाररूपामवलोक्य समुत्पन्नतदभिलाषातिरेकः परवशमनाः समजनि, पश्चादृष्टश्च 'तया' राजीमत्या 'अपि' पुनरर्थे, प्रथमप्रविष्टैहि नान्धकारप्रदेशे किञ्चि दवलोक्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्याश्रयगतासु शेषसाध्वीष्वेकाकिनीप्रविशेदपि न तत्रेयमिति भावः, भीता च मा कदाचिदसौ मम शीलभङ्गं विधास्यतीति, 'तस्मिन' इति लयने दृष्ट्वा 'एकान्ते' विवेक्ते 'तकम्' इति रथनेमि, किं कृतवत्यसावित्याह- 'बाहाहि'ति बाहुभ्यां कृत्वा 'संगोपं परस्परबाहगुम्फनं स्तनोपरिमर्कटबन्धमितियावत.'वेपमाना' शीलभङ्गभयात्कम्पमाना 'निषीदति' उपविशति, तदाश्लेषादिपरिहारार्थमिति भाव इति सूत्रचतुष्टयार्थः ।। अत्रान्तरेमू.(८३२) अह सोऽविरायपुत्तो, समुद्दविजयंगओ।
भीयं पवेविरं दुटुं, इमं वक्कमुदाहरे॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org