________________
उत्तराध्ययन- मूलसूत्रम् - २ - १९/७०९ त्वादिविषयाभिर्वा 'विशुद्धाभिः ' निदानादिदोषरहिताभिर्भावयित्वा - तन्मयतां नीत्वा 'अप्पयं 'ति आत्मानं, 'मासिएण उ भत्तेणं' ति मासे भवं मासिकं तेन तुः पूरणे 'भक्तेन' भोजनेन मासोपवासोपलक्षणकत्वादस्य मासोपवासेनेतियावत् 'सिद्धि' निष्ठितार्थतां सकलकर्मक्षयेणेति गम्यते, 'अनुत्तरां' सकलसिद्धिप्रधानाम्, अनेनाञ्जनसिद्धयादिव्यवच्छेदमाहेति सूत्र-द्वयार्थः ॥ इड्डीत्यादिसूत्रकदम्बकस्य तात्पर्यार्थमाह नियुक्तिकृत्
नि. [ ४२२ ]
४०
इड्डीए निक्खतो काऊं समणत्तणं परमघोरं । तत्थ गओ सो धीरो जत्थ गया खीणसंसारा ॥
वृ. सुगमैव, नवरम्, 'ऋद्धया' दीनानाथदानादिकया विभूत्या निष्क्रान्तः सन् 'परमधोरं ' कातरजनातिशयदुरनुचरं यत्र गताः क्षीणसंसारा इति मोक्ष इत्यभिप्राय इति गाथाऽवयवार्थः ॥ साम्प्रतं सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाह सूत्रकृत
मू. ( ७१० )
एवं करंति संबुद्धा, पंडिया पवियक्खणा । विनियति भोगेसु, मियापुत्ते जहामिसी ॥
वृ. व्याख्यातप्रायमेव संगता प्रज्ञा येषां ते संप्रज्ञाः संपन्ना वा ज्ञानादिभिः 'जहामिसि' त्ति मकारोऽलाक्षणिको यथेत्यौपम्याभिधायी 'ऋषि: ' मुनिरिति सूत्रावयमार्थः ।
इत्थमन्योक्त्योपदिश्य पुनर्भङ्गयन्तरेणोपदिशन्नाह
मू. ( ७११) महम्पभावस्स महाजसस्स, मियाइपुत्तस्स निसम्म भासियं । तवप्पहाणं चरियं च उत्तमं गइप्पहाणं च तिलोअविस्सुतं ॥ मू. ( ७१२) वियाणिया दुक्खविवड्ढणं धनं, ममत्तबंधं च महाभयावहं । सुहावहं धम्मधुरं अनुत्तरं, धारेह निव्वाणगुणावहं महं ॥ त्तिबेमि ॥
वृ. सूत्रद्वयं निगदसिद्धमेव, नवरं मृगापुत्रस्य ' भाषितं' संसारदुःखरूपतावेदकं यत्तेन पित्रोः पुरत उक्तं, प्रधानं तपो यत्र चरिते तत्प्रधानतपो, व्यत्ययनिर्देशश्च प्राग्वत्, 'चरितं ' च चेष्टितं 'गतिप्पहाणं च' इति प्रधानगति च मुक्तिमिति योऽर्थः, 'त्रिलोकविश्रुतां' जगन्त्रितयप्रतीताम्, अनेन च फललिप्सवो हि प्रेक्षावन्तः प्रवर्त्तन्त इति काक्वा फलमाह
एतानिशमनाश्च ममत्वं बन्ध इव सत्प्रवृत्तिविधातितया मात्वबन्धस्तं च, महाभयावहं तत एव चौरादिभ्यो महाभयावहं तत एव चौरादिभ्यो महाभयावाप्तेः, धर्मो धूरिव महासत्त्वरुह्यमानतया धर्मधुरा-महावत्रपञ्चकात्मिका तां, तथा निर्वाणगुणा- अनन्तज्ञानदर्शनवीर्यसुखादयस्तदावहां- तत्प्रापिकां धर्मधुरां धारयतेति सम्बन्धः । इह च निवार्णगुणावहत्वं सुखावहत्वे हेतु: 'महंति' अपरिमितमाहात्म्यतया महर्ती, सूत्रत्वाच्चैवं निर्देश इति सूत्रद्वयार्थः ॥
'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव || अध्ययनं १९ समाप्तम्
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकोनविशंतितमध्ययनं सनिर्युक्तिः सटीकं समाप्तम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org