________________
३९
अध्ययनं-१९,[नि. ४२१]
समो निंदापसंसासु, तहा मानावमानओ।। मू. (७०५) ___गारवेसु कसाएसु. दंडसल्लभएसु ।
नियत्तो हाससोगाओ, अनियाणो अबंधणो। मू.( ७०६) अनिस्सिओ इह लोए, परलोए अनिस्सिओ।
वासीचंदनकप्पो अ, असने अनसने तहा।। मू.(७०७)
अप्पसत्थेहिं दारेहि, सबओपिहियासवो।
अज्झप्पझाणजोगेहि, पसत्थदमसासनो ।। वृ. सूत्रपटकं निगदसिद्धमेव, नवरं 'सभितरबाहिरिए'त्ति सहाभ्यन्तरैः-प्रायश्चित्तादिभिर्वाश्चि-अनशनादिभिर्भेदैर्वर्त्तत इति सबाह्याभ्यन्तरं तस्मिन, प्रधानत्वाच्च प्रथममभ्यन्तरोपादानं ।। 'निर्मम:' ममत्वबुद्धिपरिहारतः 'निस्सङ्गः' सङ्गहेतुधनादित्यागतः 'समश्च' न रागद्वेषवान्निर्ममत्वादेरेव ॥ लाभेल्य्दिना समत्वमेव प्रकारान्तरेणाह, अत्र च 'समः' न लाभादौ चित्तोत्कर्षभाग नाप्यलाभादौ दैन्यवान्, जीविते मरणे समो, नैकत्राप्याकाङ्क्षावान्, 'मानावमानओ'त्ति मानापमानयोः, गौरवादीनि सूत्रे सुब्ब्यत्ययेन सप्तम्यन्ततया निर्दिष्टानि पञ्चम्यन्ततया व्याख्येयानि, निर्वृत्त इति च सर्वत्र सम्बन्धनीयम्, 'अबन्धनः' रागद्वेषबन्धनरहितः । ___ अत एव अनिश्रितः' इहलोके परलोके वाऽनिश्रितो नेहलोकार्थं परलोकार्थं वाऽनुष्ठानवान् 'नो इहलोगट्ठयाए तवमहिढेज्जा नो परलोगट्ठयाए तवमहिढेज्जा' इत्याद्यागमात् पुनरनिश्रिताभिधानं च मन्दमतिविनेयानुग्रहार्थमदुष्टमेव, वासीचन्दनकल्प इत्यनेन समत्वमेव विशेषत
आह, वासीचन्दनशब्दाभ्यां च तद्वयापारकपुरुपावुपलक्षितौ, ततश्च यदि किलैको वास्या तक्ष्णोति, अन्यश्च गोशीदिना चन्दनेनालिम्पति, तथाऽपि रागद्वेषाभावतो द्वयोरपि तुल्यः, कल्पशब्दस्येह सदृशपर्यायात्वात्, 'अनशने' इति च नञाऽभावे कुत्सायां वा, ततश्चाशनस्यभोजनस्याभावे कुत्सिताशनभावे वा कल्पः, इह चेष्टितोऽधिकाराणां प्रवृत्तिरिति पूर्वत्र समस्तमपि कल्प इत्यनुवर्तते, 'अप्रशस्तेभ्यः प्रशंसाऽनास्पदेभ्यः 'द्वारेभ्यः' कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो य आश्रवः-कर्मसंलगनात्मकः स पिहितः-तद्वारस्थगनतो निरुद्धो येनासौ पिहिताश्रवः, सापेक्षस्यापिगमकत्वात्समासः, यद्वाऽप्रशस्तेभ्यो द्वारेभ्य: सर्वेभ्यो निर्वृत्त इति गम्यते, अत एव पिहिताश्रवः, कैः पुनरयमेवंविधः?- अध्यात्मेत्यात्मनि ध्यानयोगाःशुभध्यानव्यापारा अध्यात्मध्यानयोगास्तेः, अध्यात्मग्रहणं तु परस्थानां तेषामकिञ्चित्करत्वाद्, अन्यथाऽतिप्रसङ्गात्, प्रशस्तः प्रशंसास्पदो दमश्च-उपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स प्रशस्तदमशानस इति सूत्रपट्कार्थः । सम्प्रति तत्फलोपदर्शनायाहमू.(७०८) एवं नाणेन चरणेन, दसणेन तवेन य।
भावनाहि विसुद्धाह, सम्म भावि त्तु अप्पयं॥ मू. (७०९) बहुयाणि उवासाणि, सामत्रमनुपालिया।
मासिएण उ भत्तेणं. सिद्धिं पत्तो अनुत्तरं ।। वृ.सूत्रद्वयमुत्तानार्थमेव, नवरं भावनाभिः' महाव्रतसम्बन्धिनीभिर्वक्ष्यमाणाभिरनित्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org