SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ २७ अध्ययन-१९,[नि. ४१७ ] मू. (६२८) मानुसत्ते असारंभि, वाहीरोगाण आलए। जरामरणपत्थंमि, खणपि न रमामहं ।। मू.(६२९) जम्म दुक्खं जरा दुक्खं, रोगा य मरणाणि य। अहो दुक्खो हु संसारो, जत्थ कीसंति जंतुणो। मू. (६३०) खितं वत्थु हिरनं च, पुत्तदारं च बंधवा। चइत्ता न इमं देह, गंतव्वमवस्स मे॥ मू. (६३१) जह किंपागफलाणं, परिणामो न सुंदरो। एवं भुत्ताण भोगाणं, परिणामो न सुंदरो। ७.सूत्रचतुष्टयं स्पष्टं, नवरं व्याध्य:--अतीव बाधाहेतवः कुष्ठादयो रोगाः-ज्वरादयस्तेषाम 'आलये' आश्रये 'जरामरणग्रस्ते वार्धक्यमृत्युक्रोडीकृते, अनेन मानुषत्वासारत्वमेव भावितं, क्षणमपि 'न रमे' नाभिरति लभेऽहमिति। इत्थं मनुष्यभवस्यानुभूयमानत्वेन निर्वेदहेतुत्वमभिधाय सम्प्रति चतुर्गतिकस्यापि संसारस्य तदाह- जम्म'मित्यादिना, अत्र च अहो इति सम्बोधने 'दुक्खो हुत्ति दुःखहेतुरेव संसारो जन्मादिनिबन्धनत्वात्तस्य 'यत्र' यस्मिन् गतिचतुष्टयात्मके संसारे 'क्लिश्यन्ति' बाधामनुभवन्ति, जन्मादिदुःखैरेवेति गम्यते, 'जन्तवः' प्राणिनः, इह च दुःखानुभवाधारत्येन संसारस्य दुःखहेतुत्वमिति भावः । तथा 'खेत्त' मित्यादिनेष्टवियोगोऽशरणत्वं च संसारात्रिर्वेदहेतुरुक्तः, तथा किम्पाको-वृक्षविशेषस्तस्य फलान्यतीव सुखादानि, अनेन चोपसंहारसूत्रेणोदाहरणान्तरद्वारेण भोगदुरन्ततैव निर्वेदहेतुरुक्ता इति सूत्रचतुष्टयावयवार्थः॥ इत्थं निर्वेदहेतुमभिधाय दृष्टान्तद्वयोपन्यासतः स्वाभिप्रायमेव प्रकटयितुमाहमू.(६३२) अदाणं जो महंतं तु, अपाहेज्जो पवज्जई। गच्छंतो से दुही होइ, छुहातण्हाइपीडिओ॥ मू.(६३३) एवं धम्म अकाऊणं,जो गच्छइ परं भवं॥ गच्छंतो से दुही होई, वाहिरोगेहिं पीडिओ॥ मू.(६३४) अद्धाणं जो महंतं तु, सपाहेज्जो पवज्जई। गच्छंतो से सुही होइ, छुहातहाविवज्जिओ।। मू.(६३५) एवं धम्मपि काऊणं, जोगच्छइ परं भवं। गच्छंते से सुहीहोइ, अप्पक्कमे अवेयणे। मू. (६३६) जहा गेहे पलितंमि, तस्स गेहस्स जो पहू। सारभंडाणि नोणेइ, असारं अवउज्झइ ।। मू. (६३७) एवं लोए पलितमि, जराए मरणेन य। अप्पाणं तारइस्सामि, तुन्भेहि अनुमनिओ॥ वृ.सूत्रषट्कं प्रकटार्थमेव, केवलमत्र प्रथमसूत्रेण दृष्टान्त उक्तः, अत्र च 'अध्वानं' मार्ग पथि साधु पाथेयं-सम्बलकं तद्यस्याविद्यमानं सोऽपाथेय: 'प्रपद्यते' अङ्गीकृरुते, क्षुत्तृष्णापीडितत्वं चेह दुःखित्वभवने हेतुः। द्वितीयसूत्रेण दार्टान्तिकोषदर्शनं, व्याधिरोगपीडितत्वं चात्र दुःखित्वभवने निमित्तं, दारिद्यादिपीडोपलक्षणं चैतत्। उत्तरसूत्रद्वयेन चैतत्सूत्रद्वयोक्तस्यैवार्थस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003381
Book TitleAgam Sutra Satik 43 Uttaradhyayanani MoolSutra 4
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages704
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 43, & agam_uttaradhyayan
File Size130 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy