________________
उत्तराध्ययन-मूलसूत्रम्-२-१९/६२४ महार्णव इव महार्णव:-संसारस्तस्माद्, यतश्चैवमतः अनुजानीत' अनुमन्यध्वं, मामिति शेषः, 'पव्वइस्सामी'ति प्रव्रजिष्यामि 'अम्मो 'त्ति पूज्यतरत्वाद्विशिष्टप्रतिबन्धास्पदत्वाच्च मातुरामन्त्रणं, यो हि भविष्यदुःखं नावैति तत्प्रतिकारहेतुं वा स कदाचिदित्थमेवासीत, अहं तूभयत्रापि विज्ञ इति कथं न दुःखप्रतीकारोपायभूतां महाव्रतात्मिकां प्रव्रज्यां प्रतिपत्स्य इति सूत्रगर्भार्थः ।। अमुमेवार्थमनुवादतः स्पष्टयितुमाह नियुक्तिकृत्नि.[ ४१७] सो लद्धबोहिलाभो चलणे जनगाण वंदिउं भणइ।
वीसज्जिउमिच्छामो काहं समणत्तणं ताया!।। वृ.'सः' इति मृगापुत्रो लब्धः-प्राप्तो बोधिलाभो-जिनधर्मप्राप्तिरूपो येन स तथा, 'चरणान्' पादान् ‘जनकयोः' मात्रापित्रोर्वन्दित्वा भणति, यथा 'विसर्जयितुम्' मुत्कलयितुं वयमात्मानमिति गम्यते 'इच्छामः' अभिलषामः, किमिति?, यतः 'काहं'ति वचनव्यत्ययात्करिष्यामः 'श्रमणत्वं' प्रव्रज्यां 'तात !' इति पितः !, उपलक्षणत्वान्मातश्चेति गाथार्थः । इदानीं तौ कदाचिद्भोगैरुपनिमन्त्रयेयातामित्यभिप्रायतो यत्तेनोक्तं तत्सूत्रकृदाहमू. (६२५) अम्मताय! मए भोगा, भुत्ता विसफलोवमा।
पच्छा कडयविवागा, अनुबंधदुहावहा। मू. (६२६) इमं सरीर अनिच्चं, असुई असुइसंभवं ।
असासयावासमिणं, दुक्खकेसाण भायणं ।। मू. ( ६२७) __ असासए सरीरंभि, रई नोवलभामहं।
पच्छा पुरा व चइयव्वे, फेणबुब्बयसंनिभे। वृ. सूत्रत्रयं प्रतीतार्थमेव, नवरं विषमिति-विषवृक्षस्तस्य फलं विषफलं तदुपमाः, तदुपमत्वमेव भावयितुमाह-पश्चात्कटुक इव कटुकोऽनिष्टत्वेन विपाको येषां ते तथा, आपात एव मधुरा इति भावः, अनुबन्धदुःखावहाः' अनवच्छिन्नदुःखदायिनः, यथा हि विषफलमास्वाद्यमानमादौ मधुरमुत्तरकालं च कटुकविपाकं सातत्येन च दुःखोपनेतृ एवमेतेऽपीति, किञ्चअमी कामा: स्पर्शप्रधानाः, स्पर्शश्च शरीराश्रयः, तच्चेदं शरीरम् ‘अनित्यम्' अशाश्वतम् 'अशुचि' स्वाभाविकशौचरहितम् ‘अशुचिसंभवम्' अशुचिरूपशुक्रशोणितोत्पन्नम्, अशाश्वत:-कथञ्चि दवस्थितत्वेऽप्यनित्य आवास:-प्रक्रमाज्जीक्स्यावस्थानं यस्मिन्नित्यशाश्वतावासं,
पुन: ‘इदमि'त्यभिधानमतीवासारत्वावेशसूचकं, दुःखम्-असातं तद्धेतव: क्लेशा:-ज्वरादयो रोगा दुःखक्लेशा शाकपार्थिवादिवत्समासस्तेषां 'भाजन' स्थानं, यतश्चैवमतोऽशाश्वते शरीरे 'रति' चित्तस्वास्थ्यं 'नोपलभे' न प्राप्नोम्यहं, भोगेषु सत्स्वपीति गम्यते, शरीराश्रयत्वात्तेषामिति भावः, शरीराशाश्वतत्वमेवा-पश्चात्पुरा वा त्यक्तव्ये शरीरे इति प्रक्रमः, तद्धि पश्चादिति भुक्तभोगावस्थायां वार्धक्यादौ, पुरा अभुक्तभोगितायां वा बाल्यादौ त्यज्यत इति, यद्वा पश्चादिति-यथास्थित्यायुःक्षयोत्तरकालं पुरा वेत्युपक्रममहेतोर्वर्शताद्यासंकलितजीवितप्रमाणात्प्रागपि त्यक्त्वये' अवश्यत्याज्ये 'फेनबुद्धदसंनिभे' क्षणदृष्टनष्टतया, अनेनाशाश्वतत्वमेव भावितमिति न पौनरुक्त्यमिति सूत्रत्रयार्थः॥
एवं भोगनिमन्त्रणपरिहारमभिधाय प्रस्तुतस्यैव संसारनिर्वेदस्य हेतुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org