________________
अध्ययनं-१७,[नि.३९१] 'अयंसि'त्ति अस्मिन् 'लोके' जगति विपमिव'त्ति गर इव 'गर्हितः' निन्दितो, भ्रष्टप्रतिज्ञो हि प्राकृतजनैरपि निन्द्यते धिगेनमिति, अत एव न स'इह' इतीह लोके 'नैवेति नापि परत्र लोके, परमार्थतः सन्निति शेपः, यो हि नैहिकमामुप्विकं वा कञ्चन गुणमुपार्जयति स तद्गुणनायामप्रवेशतस्तत्त्वतोऽविद्यमान एवेति। मू. (५५९) जे वज्ज एए उ सदा उदोसे, से सुब्बए होइ मुनीन मज्झे।
अयंसि लोए अमयं व पूइए, आराहए दुहओ लोगमिणं । तिबेमि॥ वृ. यः 'वर्जयति' परित्यजति 'एतान्' उक्तरूपान् ‘सया उत्ति सदैव दोषान् यथासुखविहारादिपापानुष्ठानरूपान् स तथाविधः 'सुव्रतः' निरतिचारतया प्रशस्यव्रतो भवति मुनीनां मध्ये, किमुक्तं भवति?- भावमुनित्वेनासौ मुनि मध्ये गण्यते, तया वाऽस्मिन् लोके 'अमृतमिव' सुरभोज्यमिव 'पूजितः' अभ्यर्हित आराधयति 'दुहतो लोगमिणं'ति इहलोकपरलोकभेदेन द्विविधं लोकम् 'इणं'ति इममनेन चातिप्रतीततया प्रत्यक्षं निर्दिशतीति, इहलोके च सकललोकपूज्यतया परलोके च सुगत्यवाप्तः, ततः पापवर्जनमेव विधेयमिति भाव इति सूत्रद्वयार्थः ।। 'इति' परिसमाप्तौ, ब्रवमीति पूर्ववत्, नया अपि तथैव॥
अध्ययनं - १७ समासम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे सप्तदशअध्ययनस्य भद्रबाहुस्वामिरचिता नियुक्ति एवं शान्त्याचार्य विरचिता टीका परिसमाप्ता।
(अध्ययनं १८- संयमीय) वृ. उक्तं सप्तदशमध्ययनम्, अधुनाऽष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने पापवर्जनमुक्तं, तच्च संयतस्यैव, स चो भोगद्धित्यागत एवेति स एव संजयोदाहरणत इहोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वद्यावत्रामनिष्पन्नानिक्षेपे संजयीयमिति नाम, ततः सञ्जयशब्दनिक्षेपायाह नियुक्तिकृत्नि.[३९२]
निखेवो संजइज्जंमि चउ० ।। नि.[३९३]
जाणगसरीरभत्रिए। नि.[३९४] संजयनामं गोयं वेयंतो भावसंजओ होइ ।
ततो समट्रियमिणं अज्झयणं संजइज्जति ।। वृ.गाथात्रयं व्याख्यातप्रायं, नवरं 'निक्खेवो संजइज्जमि'त्ति 'निक्षेपः' न्यासः सञ्जयीयाध्ययने अर्थात्सञ्जयस्येति गम्यते । तथा च तृतीयगाथायां 'संजयनामं गोयं वेयंतो' इत्युक्तं 'तत' इति सञ्जयादभिधेयभूतात्, 'समुत्थितम्' उत्पन्नम् इदं अध्ययनं सञ्जयीयमिति, तस्माद्धेतोरुच्यत इति गाथात्रयार्थः । इत्युक्तो नामनिष्पत्रनिक्षेपः, सम्प्रति सूत्रालापकनिष्पत्रस्यावसरः, स च सूत्रे सति भवत्यत: सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्- . मू. (५६०) कंपिल्ले नयरे राया, उदिन्नबलवाहणे।
नामेणं संजओ नाम, मिगव्यं उवनिग्गए। वृ.काम्पिल्ये नगरे 'राजा' नृपतिरुदीर्णम्-उदयप्राप्तं बलं-चतुरङ्गवाहनं च-गिल्लिथिल्लया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org